________________
॥ अथ त्रयोदशं चित्रसम्भूतीयमध्ययनं प्रारभ्यते ॥
तपः कुर्वता पुरुषेण निदानं न कार्यमित्याह इति द्वादश- त्रयोदशयोः सम्बन्धः । चित्र-सम्भूतसाध्वोः सम्बन्धमाह - साकेतनगरे चन्द्रावतंसकस्य राज्ञः पुत्रो मुनिचन्द्रनामा बभूव । स च निवृत्तकाम- भोग-तृष्णः सागरचन्द्रस्य मुनेः समीपे प्रव्रजितः । गुरुभिः समं विहरन्नन्यदा एकस्मिन् ग्रामे प्रविष्टः । सार्थेन सह सर्वेऽपि साधवश्चलिताः, सार्थभ्रष्टोsaौ मुनिचन्द्रोऽव्यां पतितः । तत्र चत्वारो गोपालदारकास्तं क्षुत्तृषाक्रान्तं पश्यन्ति, शुद्धैरशनादिभिः प्रतिजाग्रति । यतिना तेषां पुरो देशना कृता । ते गोपालदारकाः प्रतिबुद्धास्तदन्तिके प्रव्रज्यां गृहीतवन्तः । तैः सर्वैः शुद्धा दीक्षा पालिता । द्वाभ्यां तु दीक्षा पालितैव, परं मलक्लिन्नवस्त्रादिजुगुप्सा कृता, ते चत्वारोऽपि देवलोकं गताः । तत्र जुगुप्साकारकौ द्वौ देवलोकच्युतौ दशपुरनगरे साण्डिल्यब्राह्मणस्य यशोमत्या दास्याः पुत्रत्वेनोत्पन्नौ युग्मजातौ बभूवतुः । अतिक्रान्तबालभावौ तौ यौवनं प्राप्तौ ।
अन्यदा क्षेत्ररक्षणार्थं तावटव्यां गतौ, रात्रौ च वटपादपाधः सुप्तौ । तत्रैको दारको वटकोटरान्निर्गतेन सर्पेण दष्टः । द्वितीयः सर्पोपलम्भनिमित्तं भ्रमंस्तेनैव सर्पेण दष्टः । ततो द्वापि मृतौ कालिञ्जरपर्वते मृगीकुक्षौ समुत्पन्नौ युग्मजातौ मृगौ जातौ । कालक्रमेण तौ मात्रा समं भ्रमन्तावेकेन व्याधेनैकशरेणैव हतौ मृतौ । ततस्तौ द्वावपि गङ्गातीरे एकस्या राजहंस्याः कुक्षौ समुत्पन्नौ जातौ क्रमेण हंसौ, मात्रा समं भ्रमन्तावेकेन मत्स्यबन्धकेन गृहीतौ मारितौ च । ततो वाराणस्यां नगर्यां महर्द्धिकस्य भूतदिन्नाभिधस्य चाण्डालस्य पुत्रत्वेन समुत्पन्नौ, क्रमेण जातयोस्तयोः चित्रश्च सम्भूतिश्चेति नामनी कृते । तौ चित्रसम्भूतौ मिथः प्रीतिपरौ जातौ ।
इतश्च तस्मिन्नवसरे वाराणस्यां नगर्यां शङ्खनामा राजा, तस्य नमुचिनामा मन्त्री, अन्यदा तस्य किञ्चित् क्षूणं जातम् । कुपितेन राज्ञा स वधार्थं भूतदिन्नचाण्डालस्य दत्तः, ' भूतदिन्नचाण्डालेन तस्यैवमुक्तम्- भो मन्त्रिन् ! त्वामहं रक्षामि, यदि मद्गृहान्तर्भूमिगृहस्थितौ मत्पुत्रौ पाठयसि, जीवितार्थिना तेन तत्प्रतिपन्नम् । भूमिगृहस्थः स चित्र-सम्भूतौ पाठयति, चित्रसम्भूतमाता तु मन्त्रिपरिचर्यां कुरुते । मन्त्री तु तस्यामेव व्यासक्तोऽभूत् निजपत्नीव्यभिचारिचरितं चाण्डालेन ज्ञातम् । नमुचिमारणोपायस्तेन चिन्तितः । पितुरध्य-वसायस्ताभ्यां ज्ञातः । उपकार- प्रीतिरताभ्यां स नमुचिर्नाशितः । ततो नष्टः स क्रमेण हस्तिनागपुरे सनत्कुमारचक्रिणो मन्त्री जातः । इतश्च ताभ्यां मातङ्गदारकाभ्यां चित्रसम्भूताभ्यां रूपयौवन- लावण्य-नृत्य-गीत-कलाभिर्वाराणसीनगरीजनः प्रकामं चमत्कारं प्रापितः ।
अन्यदा तत्र मदनमहोत्सवो जातः, सर्वेषु लोकेषु गीत-नृत्यवादित्रादिविनोदप्रवृत्तेषु सत्सु तौ मातङ्गदारकौ वाराणसीनगर्यन्तः समागत्य सर्वाः स्वकलाः दर्शयितुं प्रवृत्तौ । तयोर्विशेषकलाचमत्कृता लोकास्तरुणीप्रमुखास्तत्समीपे गताः । एकाकारो जातः ।
૨૬