________________
२००]
[उत्तराध्ययनसूत्रे के ते हरए के य ते संतितित्थे, कहिंसि बहाओ व रयं जहासि। - आइक्खणे संजय जक्खपूइया, इच्छामु नाउं भवओ सगासे ॥४५॥
हे ऋषे ! यक्षपूजित ! त्वं नोऽस्मान् आचक्ष्व - ब्रूहि । वयं भवतः सकाशाद ज्ञातुमिच्छामः । हे मुने ! ते तव को हुदः? - कः स्नानकरणयोग्यजलाधारः ? किं पुनस्तव शान्तितीर्थं ? शान्त्यै पापशान्तिनिमित्तं तीर्थं शान्तितीर्थं - पुण्यक्षेत्रम्, यस्मिन् तीर्थे दानादिबीजमुप्तं पातकशमनं पुण्योपार्जकं च स्यात् । कुरुक्षेत्रादिसदृशं किं तीर्थं वर्तते ? पुनर्हे मुने ! त्वं कस्मिन् स्थाने स्नातः सन् रजः- कर्ममलं जहासि-त्यजसि ? त्वं निर्मलो भवसि ? एतत्सर्वेषां प्रश्नानामुत्तरं वदेत्यर्थः ॥ ४५ ॥
इति पृष्टे मुनिराहधम्मे हरए बंभे संतितित्थे, अणाविले अत्तपसन्नलेसे । जर्हिसि बहाओ विमलो विसुद्धो, सुसीइभूओ पजहामि दोसं ॥ ४६ ॥
भो ब्राह्मणाः ! धर्मो हिंसाविरमणो दया-विनयमूलो हुदो वर्तते, कर्ममलापहारकत्वात् । ब्रह्मचर्य-मैथुनत्यागः शान्तितीर्थम्, तस्य तीर्थस्य सेवनात् सर्वपापमूलं रागद्वेषौ निवारितावेव । यदुक्तं
___ "ब्रह्मचर्येण सत्येन, तपसा संयमेन च ।
मातङ्गर्षिर्गतः शुद्धि, न शुद्धिस्तीर्थयात्रया ॥ १॥" कीदृशे ब्रह्मचर्यतीर्थे ? अनाविले-निर्मले।पुनः कीदृशे ब्रह्मचर्यतीर्थे ? आत्मप्रसन्नलेश्ये, आत्मनः प्रसन्ना निर्मलत्वकारणं लेश्या यस्मिन् स आत्मप्रसन्नलेश्यस्तस्मिन्, आत्मनिर्मलत्वकारणं तेजःपद्मशुक्लादिलेश्यात्रयम्, तेन सहिते इत्यर्थः । यत्र यस्मिन् ब्रह्मचर्यतीर्थे स्नातोऽहं विमलो - भावमलरहितो विशुद्धो - गतकलङ्कः सुशीतीभूतो - रागद्वेषादिरहितः सन् दोषं - कर्म ज्ञानावरणीयादिकमष्टप्रकारकं प्रकर्षेण जहामि-त्यजामि ॥ ४६ ॥ एयं सिणाणं कुसलेहिं दिटुं, महासिणाणं इसिणं पसत्यं । जर्हिसिं बहाया विमला विसुद्धा, महारिसी उत्तमं ठाणं पत्त ॥ ४७ ॥ त्ति बेमि ॥
पूर्वमुक्तं कर्मरजोविनाशकं स्नानं, तस्योत्तरमाह-भो ब्राह्मणाः ! कुशलैस्तत्वज्ञैः केवलिभिरेतत् स्नानं दृष्टं, परेभ्यश्च प्रोक्तं । कथम्भूतमेतत्स्नानं ? महास्नानं सर्वेषु स्नानेषूत्तमं । पुनः कीदृशं तत्स्नानम् ? ऋषीणां प्रशस्तम्, मुनीनां योग्यम्, येन स्नानेन स्नाताः कृतशौचा विमला:- कर्ममलरहिताः, अत एव विशुद्धा - निष्कलङ्का महर्षयो - मुनीश्वरा उत्तम-प्रधानं स्थानमर्थान्मोक्षस्थानं प्राप्ता इति अहं ब्रवीमि, जम्बूस्वामिनं प्रति श्रीसुधर्मास्वामी प्राह॥४७॥
इति हरिकेशीयमध्ययनं द्वादशं सम्पूर्णम् ॥१२॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां हरिकेशीयाध्ययनस्यार्थः सम्पूर्णः॥१२॥