________________
द्वादशं हरिकेशीयमध्ययनम् १२]
[१९९ कर्मारीणां विनाशो यस्मिन् स महाजयस्तम्। कीदृशाः सुसंवृताः ? इहास्मिन् मनुष्यजन्मनि जीवितम्, प्रस्तावादसंयमजीवितव्यं अनवकाङ्क्षमाणाः, असंयममनीप्सन्त इत्यर्थः । पुनः कीदृशाः सुसंवृताः ? व्युत्सृष्टदेहाः, विशेषेण परीषहोपसर्गसहने उत्सृष्टः कल्पितः कायो यैस्ते व्युत्सृष्टदेहाः । पुनः कीदृशाः ? शुचयो निर्मलव्रताः । पुनः कीदृशाः ? त्यक्तदेहाः, त्यक्तो निर्ममत्वेन परिचर्याभावेन अवगणितो देहो यैस्ते त्यक्तदेहाः । एतादृशाः साधवः स्विष्टं यज्ञं कुर्वन्ति । एष एव कर्मप्रस्फेटनोपाय इत्युक्तम् । ततो भवन्तोऽप्येवं यजतामिति भावः ॥ ४२ ॥
यजमानस्य कान्युपकरणानीति पुनर्ब्राह्मणाः पृच्छन्ति स्मके ते जोई के च ते जोईठाणं, का ते सुया किं च ते कारिसंगं । एहा य ते कयरा संति भिक्खु, कयरेण होमेण हुणासि जोइं॥४३॥ ___ हे मुने ! 'ते' तव किं ज्योतिः? - कोऽग्निः? च पुनः 'ते' तव किं ज्योतिःस्थानमग्निस्थानं ? अग्निकुण्डं किमस्ति ? 'ते' तव काः पुनः शुचो घृतादिप्रक्षेपका दर्व्यः ? च पुनः 'ते' तव करीषाङ्गं-अग्न्युद्दीपनकारणं किमस्ति ? विध्याप्यमानोऽग्निर्येनोद्दीप्यते सन्धुक्ष्यते तत्करीषाङ्गं तव किं विद्यते ? च पुनरेधाः कतराः काः समिधः ? याभिरग्निः प्रज्वाल्यते ताः का सन्धि ? च पुनः शान्तिर्दुरितोपशमहेतुरध्ययनपद्धतिस्तव कतरा कास्ति ? हे भिक्षो ! त्वं कतरेणेति केन होमेन-हवनविधिना ज्योतिरग्नि जुहोषि ? अग्नि प्रीणयसि ? षड्जीवनिकायविराधनां विना हि यज्ञो न स्यात् । हे भिक्षो ! भवता षड्जीवनिकायविराधना तु पूर्वं निषिद्धा । एवं ते ब्राह्मणा मुनये यज्ञं यज्ञोपकरणसामग्री पप्रच्छुः ॥ ४३ ॥
अथ मुनिर्मुनियोग्यं यज्ञमाहतवो जोई जीवो जोइठाणं, जोगा सुया सरीरं कारिसंगं । कम्मं एहा संजमजोगसंती, होमं हुणामी इसिणं पसत्थं ॥ ४४ ॥
भो ब्राह्मणाः ! अस्माकं तपो ज्योतिः, तप एवाग्निरस्ति, कर्मेन्धनदाहकत्वात् । द्वादशविधं हि तपः सकलकर्मकाष्टानि प्रज्वालयति, जीवो ज्योतिःस्थानम्, जीवोऽग्निकुण्डं, तपस आधारत्वात् । मनो-वाक्काययोगास्ते शुचो दो ज्ञेयाः, मनो-वाक्काययोगैः शुभव्यापारा, घृतस्थानीयास्तपोऽग्निप्रज्वलनहेतवो वर्तन्ते । शरीरं करीषाङ्गं, तेनैव शरीरेण तपोऽग्निर्दीप्यते, शरीर साहाय्येन तपः स्यादित्यर्थः ।
'शरीरमाद्यं खलु धर्मसाधनमि'त्युक्तेः [ ]
कर्माण्येधा इन्धनानि कर्मेन्धनानि तपोऽग्निः प्रज्वालयति, महादुष्टकर्मकारिणोऽपितपसा निर्मला सञ्ञाताः संयमयोगः शान्तिः संयमस्य सप्तदशविधस्य योग:-सम्बन्धः स शा सर्वजीवानामुपद्रवनिवारकत्वात् ।अनेन होमेनाहं तपोऽग्नि जुहोमि । कथम्भूतेन होमेन ?ऋषीणां प्रशस्तेन-मुनीनां योग्येन, साधवो ह्येतादृशं यज्ञं कुर्वन्ति, न अपरे एतादृशं यज्ञं कर्तुं समर्था भवन्ति ॥४४॥
यज्ञस्वरूपं तु साधुनोक्तम्, अथ ब्राह्मणाः स्नानस्वरूपं पृच्छन्ति