________________
१९८]
[ उत्तराध्ययनसूत्रे तदाधारभूतान् विहेडयन्तो - विशेषेण हिंसन्त इत्यर्थः । एतेषामेव प्राणभूतसत्त्वानां विराधनेन हिंसा भवति । पुनरेतेषामेव शुद्धिकरणकालेऽपि विराधना विधीयते, कुतोऽस्माकं शुद्धिर्भवित्री ? इति न जानन्ति, अत एव मन्दा मूर्खाः । यत उक्तम्
"दृष्टिपूतं चरेन्मार्ग, वस्त्रपूतं पिबेज्जलम् ।
ज्ञानपूतं सृजेद्धम, सत्यपूतं वदेद्वचः ॥ १ ॥" ३९ ॥ अथ प्रत्युत्पन्नशङ्कास्ते ब्राह्मणा धर्मं पप्रच्छु:कहं चरे भिक्खु वयं यजामो, पावाई कम्माइं पणुल्लयामो । अक्खाहिणे संजयजक्खपूइया, कहं सुजुटुं कुसला वयंति ॥४०॥ __ हे भिक्षो ! वयं कथं चरेमहि ? कस्यां क्रियायां प्रवर्तेमहि ? हे भिक्षो ! पुनर्वयं कथं यजामो-यागं कुर्मः ? पुनर्वयं पापानि-पापहेतूनि कर्माणि कथं पणुल्लयामः-प्रणुदामःप्रकर्षेण स्फेटयामः ? हे यक्षपूजित ! हे संयत ! जितेन्द्रिय ! कुशला - धर्ममर्मज्ञा विद्वांसः कथं - केन प्रकारेण 'सुजुटुं' इति सुष्ठ शोभनम् इष्ट, स्विष्टं शोभनयजनं वदन्ति ? तत् शोभनयज्ञं नोऽस्मान् आख्याहि-कथय, इत्यर्थः ॥ ४०॥
अथ मुनिराहछज्जीवकाये असमारभंता, मोसं अदत्तं च असेवमाणा। . परिग्गहं इथिओ माणमायं, एयं परिन्नाय चरंति दंता ॥ ४१ ॥
पूर्वं ब्राह्मणैरयं प्रश्नो विहितः, कथं वयं प्रवर्तेमहि ? तस्योत्तरं-भो ब्राह्मणाः ! दान्ता - जितेन्द्रिया एतत्पूर्वोक्तं पापहेतुकं परिज्ञाय चरन्ति-प्रवर्तन्ते । साधवो ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया आरम्भान्निवर्तन्ते इति भावः । दान्ताः किं कुर्वाणाः ? षट्जीवकायान् असमारम्भमाणा अनुपमर्दयन्तः, पुनर्मूषावादं च पुनरदत्तमसेवमानाः, पुनः परिग्रहं - उपकरणमूर्छाम्, सचित्ताऽचित्तद्रव्यग्रहणरक्षणात्मकम्, पुनः स्त्रीम्, तु पुनर्मानमभिमानम्, पुनर्मायां परवञ्चनात्मिकामसेवमानाः । मान-माययोः सहकारित्वेन क्रोध-लोभयोरपि त्यागो ज्ञेयः । एतान् सर्वान् पापहेतून् ज्ञात्वा, पुनस्त्यक्त्वा साधवो यतनया चरन्ति । अतो भवद्भिरपि एवं चरितव्यमित्यर्थः ॥ ४१॥
अथ द्वितीयप्रश्नस्य कथं यजाम इत्यस्य उत्तरमाहसुसंवुडा पंचहिंसंवरेहिं, इहजीवियं अणवकंखमाणा। वोसट्टकाया सुइचत्तदेहा, महाजयं जयई जन्नसिटुं॥४२॥
भो ब्राह्मणाः ! पञ्चभिः संवरैहिंसा-मृषा-ऽदत्त-मैथुन-परिग्रहविरमणैः सुसंवृताः सुतरामतिशयेन संवृता-आच्छादिताश्रवा निरुद्धपापागमनद्वाराः सुसंवृताः संयमिनः 'जन्नसिटुं' यज्ञश्रेष्ठं यजन्ति-कुर्वन्तीत्यर्थः । यज्ञेषु श्रेष्ठो - यज्ञश्रेष्ठस्तं, अथवा श्रेष्ठो यज्ञः श्रेष्ठयज्ञस्तम्, प्राकृतत्वात् यज्ञश्रेष्ठमिति ज्ञेयम् । कीदृशं श्रेष्ठयज्ञं ? महाजयं महान् जयः