________________
द्वादशं हरिकेशीयमध्ययनम् १२ ]
[ १९७
देवैराकाशे
वसुधारा, सा वृष्टा देवैः पातिता इत्यर्थः । तु पुनराकाशे सुरैर्दुन्दुभयः प्रहताः, वादित्राणि वादितानि । च पुनराकाशे अहोदानमहोदानमिति घुष्टं देवैः शब्दितम् ॥ ३६ ॥ तदा च द्विजा विस्मिताः किमाहुस्तदाह
सक्खं खुदीसइ तवोविसेसो, न दीसई जाइविसेसो कोई । सोवागपुत्तं हरिएससाहुं, जस्सेरिसा इड्डि महाणुभागा ॥ ३७ ॥
'खु' इति निश्चयेन तपोविशेषः साक्षाद् दृश्यते, जातिविशेषः कोऽपि न दृश्यते । तपोमाहात्म्यं दृश्यते, जातिमाहात्म्यं किमपि न दृश्यते । श्वपाकपुत्रं - चाण्डालपुत्रं तं हरिकेशसाधुं पश्यत इति शेषः । तमिति कं ? यस्य हरिकेशस्य साधोरेतादृशी सर्वजनप्रसिद्धर्द्धिर्वर्तते, देवसाहाय्यरूपा संपद्वर्तते । कीदृश्यृद्धिः ? महानुभागा - महाननुभागोऽतिशयो यस्याः सा महानुभागा, महामाहात्म्यसहिता इत्यर्थः ॥ ३७ ॥
अथ मुनिस्तान् ब्राह्मणानुपशान्तमिथ्यात्वान् दृष्ट्वा धर्मोपदेशमाहकिं माहणा जोइसमारभंता, उदएण सोहिं बहिया विमग्गह । जं मग्गहा बाहिरियं विसोहि, न तं सुदिट्टं कुसला वयंति ॥ ३८ ॥
किमितिशब्दोऽधिक्षेपे । भो ब्राह्मणा ! यूयं श्रृणुत । ज्योतिरग्नि समारभन्तः अग्नीनां समारम्भं कुर्वन्तः किं ब्राह्मणा भवन्ति ? अपि तु न भवन्ति । भो ब्राह्मणाः ! उदकेन शोधं कुर्वन्तो बाह्य शुद्धि विमार्गयथ- जानीथ । यागं कुर्वन्तः स्नानं कुर्वन्तश्च ब्राह्मणा न भवन्तीत्यर्थः । यां यागस्नानादिकां बाह्यां विशुद्धि विमार्गयथ- विचारयथ, तां बाह्यां विशुद्धि कुशला - ज्ञाततत्त्वाः सुदृष्टं सम्यग्दृष्टं न वदन्ति, यत् यज्ञादावग्नीनां - तेजस्कायस्थजीवानां विराधना । अथ च स्नानादावप्कायस्थजीवानां विराधना विशुद्धयर्थं विधीयते तत्तत्त्वज्ञैर्न सम्यग्दृष्टम्, सम्यग् न कथितमित्यर्थः । यदुक्तम् -
“स्नानं मनोमलत्यागो, यागश्चेन्द्रियरोधनम् ।
अभेददर्शनं ज्ञानं, ध्यानं निर्विषयं मनः ॥ १ ॥” इति ॥ ३८ ॥
कुसं च जूवं तणकट्ठमरिंग, सायं च पायं उदयं फुसंता । पाणाई भूयाइं वहेडयंता, भुज्जो वि मंदा पकरेह पावं ॥ ३९ ॥
भो ब्राह्मणाः ! मन्दा यूयं भूयोऽपि - पुनरपि शुद्धिकरण प्रस्तावेऽपि पापं प्रकुरुभपूर्वमपि संसारकार्यकरणप्रस्तावे आरम्भं कृत्वा प्राणान् भूतानि विनाश्य पातकमुपार्जितम्, - पुनर्धर्मकरण प्रस्तावे तदेव क्रियते इत्यर्थः । किं कुर्वन्तः ? कुशं -दर्भम्, यूपं यज्ञस्तम्भम्, तृणं-वीरणादिनडादिकम्, काष्टं - शमीवृक्षस्येन्धनम्, अग्नि च, एतत्सर्वं प्रतिगृह्णतः, एतत्सायं-सन्ध्याकाले, च पुनःप्रातः प्रभाते उदकं - पानीयं स्पृशन्त-आचमनं कुर्वन्तः, अत एव प्राणान् द्वीन्दिय-त्रीन्दिय - चतुरिन्द्रियान् भूतान्, असून् पृथिव्यादीनपि