________________
१९६]
[उत्तराध्ययनसूत्रे अथ सर्वे उपाध्यायादयस्तद्गुणाकृष्टचित्ता एवमाहुःअत्थं च धम्मं च वियाणमाणा, तुब्भे नवि कुप्पह भूइपन्ना। ... तुब्भं तु पाए सरणं उवेमो, समागया सव्वजणेण अम्हे ॥ ३३ ॥ __ हे स्वामिनः ! यूयमपि निश्चयेन न कुप्यत, कोपं न कुरुत । कथम्भूता यूयम् ? अर्थ-सर्वशास्त्राणां तत्त्वम्, च पुनर्धर्म-वस्तूनां स्वभावम्, अथवा धर्म - दशविधं साध्वाचारं विजानानाः, अर्थ-धर्मज्ञा इत्यर्थः । पुनः कथम्भूता यूयं? भूतिः-सर्वजीवरक्षा, तत्र प्रज्ञा येषां ते भूतिप्रज्ञाः । तस्माद्वयं 'तुब्भं' इति युष्माकं शरणमुपेम-उपागताः स्म । 'अम्हे' शब्देन वयमिति ज्ञेयम् । कीदृशा वयं ? सर्वजनेन समागताः- सर्वकुटुम्बपरिवारेण समागता मिलिताः ॥३३॥
अच्चेमुते महाभाग, न ते किंचिन अच्चिमो।
भुंजाहि सालिमं करं, नाणावंजणसंजुयं ॥३४॥ हे महाभाग ! 'ते' तव सर्वमप्यर्चयामः । 'ते' तव सर्वमपि श्लाघयामः । न 'ते' तव वयं किमपि - चरणधूल्यादिकमपि यद्वयं नार्चयामः । के वयं? ये त्वां नार्चयामः । त्वं तु देवानां पूजार्हः । वयं तव कां पूजां कुर्मः ? एतादृशी का पूजास्ति ? या तव योग्या, परन्तु वयं दासभावं कुर्म इत्यर्थः । सालिमं' इति शालिमयं - सम्यग्जातिशुद्धं शालिनिष्पन्नं कूरं तन्दुलभोज्यं भुञ्जाहि-भुंक्ष्व । कथंभूतं कूरं ? नानाव्यञ्जनसंयुतम्, बहुविधैर्व्यअनैर्दध्यादिभिः सहितम् ॥ ३४ ॥
इमं च मे अस्थि पभूयमन्नं, तं भुंजसु अम्ह अणुग्गहट्ठा । बाढं ते पडिच्छइ भत्तपाणं, मासस्स ऊ पारणए महप्पा ॥ ३५ ॥
हे स्वामिन् ! 'मे' ममेदं प्रत्यक्षं खण्डमण्डकादिकमन्नं प्रभूतं वर्तते - प्रचुरं वर्तते । पूर्वमपि शालिमयं कूरग्रहणं कृतम्, अत्र च पुनरन्नग्रहणं तत्सर्वान्नप्राधान्यख्यापनार्थम् । तद्भोज्यं भुक्ष्व, इति ब्राह्मणैः प्रोक्ते सति मुनिः प्राह-बाढम् इत्युक्त्वा, तथास्तु, बाढं शब्दोऽङ्गीकारे, एवमेव करोमि गृहीष्यामीत्युक्त्वा साधुर्मासस्य पारणके भक्त-पानमाहारपानीयं प्रतीच्छत्यङ्गीकरोति । कथम्भूतः स मुनिः ? महात्मा, महान् निर्मलो - निष्कषाय आत्मा यस्य स महात्मा - महापुरुषः ॥ ३५ ॥
तहि य गंधोदयपुप्फवासं, दिव्वा तर्हि वसुहारा य वुढा । पहयाओ दुंदुहिओ सुरेहि, आगासे अहो दाणं च घुटुं ॥ ३६ ॥
'तहिं' तस्मिन् यज्ञपाटके मुनिना आहारे गृहीते सति गन्धोदक-पुष्पवर्षमभूदिति शेषः ।सुगन्धपानीय-कुसुमवर्षा आसन्नित्यर्थः । च पुनस्तस्मिन् स्थाने दिव्या प्रधाना देवैः कृता वसुधारा वृष्टा, स्वर्णदीनाराणां वृष्टिरभूत् । वसु-द्रव्यं तस्य धारा-सततपातजनिता