________________
द्वादशं हरिकेशीयमध्ययनम् १२]
[१९५ अथानन्तरं स ब्राह्मण ऋषि प्रसादयति । कीदृशः स ब्राह्मणः ? सभार्य:- पत्नीसहितः, सह भार्यया भद्रया वर्तत इति सभार्यः । कथं प्रसादयति ? तदाह-हे भदन्त-हे पूज्य ! हीलामस्मत्कृतमपमानम्, च पुनर्निन्दाम्, हास्माभिर्भवतां निन्दा कृता, तां निन्दा यूयं क्षमध्वं । कीदृशो ब्राह्मणः ? विमना-विदूनमनाः ।पुनः कीदृशः ? विखिन्नो-विशेषेण दीनः । किं कृत्वा ? तान् खण्डिकान्-च्छात्रान् काष्टभूतान्-काष्टसदृशान्निश्चेष्टितान् दृष्ट्वा । पुनः कीदृशान् तान् ? अवहेठितपृष्ठिसदुत्तमाङ्गान्, अवहेठितानि पृष्ठिं यावत् नामितानि, पृष्ठिं गत्वा लग्नानि सन्ति शोभनान्युत्तमाङ्गानि-मस्तकानि येषां ते अवहेठितपृष्ठिसदुत्तमाङ्गास्तान्, पश्चाद्लग्नपृष्ठिदेशसंलग्नमस्तकान्।पुनः कीदृशान् ? प्रसारितबाह्वकर्मचेष्टान्. प्रसारिताः प्रलम्बीकृता बाहवो यैस्ते प्रसारितबाहवः । न विद्यते कर्मणि-अग्निविषय इन्धनघृतादिनिक्षेपणे चेष्टा सामर्थ्य येषां ते अकर्मचेष्टाः । प्रसारितबाहवश्च ते अकर्मचेष्टाश्च प्रसारितबाह्वकर्मचेष्टास्तान्, बाहुप्रसारणत्वेन दूरे पतितेन्धनदीकानित्यर्थः । पुनः कीदृशान् ? निर्भरिताक्षान्, निर्भेरितानि प्रसारितानि अक्षीणि यैस्ते निर्भरिताक्षास्तान्, तरलितनेत्रान् । पुनस्तान् किं कुर्वतः ? रुधिरं वमतो-मुखादक्तं श्रवतः । पुनः कीदृशान् ? उर्ध्वमुखामूर्ध्ववदनान् । पुनः कीदृशान् ? निर्गतजिह्वानेत्रान्, जिह्वा च नेत्रं च जिह्वानेत्रे, निर्गते जिह्वानेत्रे येषां ते निर्गतजिह्वानेत्रास्तान् ॥ २९ ॥३०॥
अथ स ब्राह्मणो हरिकेशर्षि कीदृशैर्वचनैः प्रसादयति ? तानि वचनान्याहबालेहिं मूढेहिं अयाणएहिं, जं हीलिया तस्स खमाह भंते । महप्पसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति ॥ ३१ ॥
भो पूज्याः ! भो भदन्तः ! एभिर्बालैः- शिशुभिर्मूढैः कषायमोहनीयवशगैर्मूखैहिताहितविवेकविकलैः 'जं' इति यस्मात्कारणात् यूयमवहीलिता-अवगणिताः तस्स' इति तस्य अवहीलनस्यापराधं क्षमध्वं ।ऋषयो महाप्रसादा भवन्ति, अतीवनिर्मलचेतसो भवन्ति । न पुनर्मुनयः कोपपरा:-क्रोधपरायणा भवन्ति, मुनयः क्षमावन्तो भवन्ति ॥३१॥
तदा मुनिः किमवादीत्याहपुट्विं च इण्हिच अणागयं च, मणप्पओसो न मे अत्थि कोइ। जक्खा उ वेयावडियं करेंति, तम्हा हु एए निहया कुमारा ॥ ३२ ॥
भो ब्राह्मणाः ! 'मे' मम पूर्वमतीतकाले, च पुनः 'इण्हि' इदानीं - वर्तमाने काले, च पुनरनागते - आगामिनि काले मनःप्रद्वेषो नास्ति, अतीतकाले नासीत्, इदानी प्रद्वेषो नास्ति, अग्रेऽपि न भविष्यतीत्यर्थः । कोऽप्यल्पोऽपि नास्ति । 'हु' पुनरर्थे , येन यक्षा वैयावृत्त्यं-साधुतर्जकनिवारणां साधुभक्तिं कुर्वन्ति, तस्मात् 'हु' इति निश्चयेन एते कुमारा यक्षैनिहताः ॥३२॥