________________
१९४]
[ उत्तराध्ययनसू ते यक्षास्तदा तस्मिन् काले तान् जनांस्तान् ब्राह्मणांस्ताडयन्ति चपेटादिभिर्ध्नन्ति । कीदृशास्ते यक्षाः ? घोररूपाः । पुनः कीदृशास्ते ? अन्तरिक्षे - आकाशे स्थिताः । पुनः कीदृशास्ते ? असुर-असुर परिणामयुक्ताः, उत्प्रेक्षतेऽसुरा इवेत्यर्थः । तर्हि तस्मिन् यज्ञपाटके 'ते' इति तान् भग्नदेहान् दृष्ट्वा भद्रा भूयः पुनरपीदं वचनमाहुरित्याह - ब्रूते, प्राकृतत्वाद्वचनव्यत्ययः । तान् किं कुर्वतः ? रुधिरं वमत इति ॥ २५ ॥
-
गिरिं नहिं खणह, अयं दंतेहिं खायह ।
जायतेयं पाएहिं हणह, जे भिक्खुं अवमन्नह ॥ २६ ॥
अरे वराका इत्यध्याहारः, यूयं नखै:- करजैगिरिं पर्वतं खनथ इव, इवशब्दस्य ग्रहणं सर्वत्र कर्तव्यम् । पुनर्दन्तैरयो- लोहं खादथ - भक्षयथ इव । पुनर्जातवेदसमग्नि पादैर्हणथ इव, अग्नि चरणैः स्पर्शथ इव, ये यूयं भिक्षं साधुमवमन्यथ, अस्य भिक्षोरपमानं कुरुथ । गिरिलोहाग्नीनामुपमानमनर्थफलहेतुत्वादुक्तम् ॥ २६ ॥
पुन: भद्राऽऽह -
आसीविसो उग्गतवो महेसी, घोरव्वओ घोरपरक्कमो य । अगणि व पक्खंद पयंगसेणा, जे भिक्खुयं भत्तकाले वह ॥ २७ ॥
भो मूर्खा ! इति अध्याहारः, एषस्तपस्वी आशीविषः, शापदाने समर्थः । आशीविषः सर्प उच्यते । यथा सर्पः पादादिना अवमन्यमानो मारणाय स्यात्, तथा अयमपि शापविषेण मारयति । पुनरयमुग्रतपा महर्षि:, पुनरसौ घोरव्रतः, पुनर्घोरपराक्रमः । ये पुनर्यूयं भक्तकालेभोजनकाले भिक्षुकं-पूर्वोक्तलक्षणं मुनिं वध्यथ, यष्ट्यादिभिस्ताडयथ, ते यूयं पतङ्गसेना:शलभसमूहा अग्नि प्रस्कन्दथ इव, आक्रमथ इव । कोऽर्थः ? यथा पतङ्गसेना अग्नि प्रविश्यमाना म्रियन्ते, तथा यूयं मरिष्यथ इत्यर्थः ॥ २७ ॥
सीसेण एवं सरणं उवेह, समागया सव्वजणेण तुभे । जइ इच्छह जीवियं वा धणं वा, लोगंपि एसो कुविओ डहिज्जा ॥ २८ ॥
भो ब्राह्मणाः ! 'तुब्भे' इति यूयं सर्वजनेन सर्वकुटुम्बेन समागताः- संमिलिताः सन्त एनं तपस्विनं शीर्षेण-मस्तकेन शरणं उपेत, शिरः प्रणामपूर्वं सर्वेऽप्यागत्यायमेवास्माकं शरणमित्युक्त्वा अभ्युपागच्छत । यदि यूयं जीवितं वाथवा धनमिहेच्छथ । यत एष साधुस्तपस्वी कुपितः सन् लोकं समस्तं नगरादिकं दहेत् ॥ २८ ॥
-
अवहेडियपिट्टिसउत्तमंगे, पसारिया बाहु अकम्मचिट्टे । निब्भेरियच्छे रुहिरं वमंते, उडूंमुहे निग्गयजीहनित्ते ॥ २९ ॥ ते पासिआ खंडिए कट्टभूए, विमणो विसण्णो अह माहणो सो । इसिं पसाएइ सभारियाओ, हीलं च निंदं च खमाह भंते ॥ ३० ॥