________________
द्वादशं हरिकेशीयमध्ययनम् १२]
[१९३ भो ब्राह्मणाः ! एष स ऋषिर्वर्तते येनर्षिणाहं वान्तास्मि - त्यक्तास्मि कथम्भूतेनर्षिणा? नरेन्द्रदेवेन्द्राभिवन्दितेन । कीदृश्यहं ? राज्ञा दत्तास्मै अर्पिता, अनेनर्षिणाहं राज्ञा दीयमानास्मि, तदा मनसापि न ध्याता, नाभिलषिता । कीदृशेन राज्ञा ? देवाभियोगेन नियोजितेन, देवस्य यक्षस्याभियोगो-बलात्कारो देवाभियोगस्तेन यक्षदेवहठेन नियोजितेन, प्रेरितेनेत्यर्थः । एतादृशोऽयं त्यागी मुनिरस्ति, तस्माद्भवद्भिर्न कदर्थ्यः । इति भदा राजकन्या ब्राह्मणान-वादीत् ॥ २१ ॥
पुनः सा किमाह - एसो हु सो उग्गतवो महप्पा, जिइन्दियो संजओ बंभयारी । जो मे तया नेच्छइ दिज्जमाणिं, पिउणा सयं कोसलिएण रन्ना ॥२२॥
'हु' इति निश्चयेनोपलक्षितो मयैषः । स उग्रतपा महात्मा वर्तते, उग्रं तपो यस्य स उग्रतपाः । महान् प्रशस्य आत्मा यस्य स महात्मा-महापुरुषः । स इति कः ? यस्तपस्वी कौशलिकेन पित्रा - मम जनकेन राज्ञा स्वयमात्मना तदा दीयमानां मां नैच्छत्, न वाञ्छति स्म । कीदृश एषः ? जितेन्द्रियः, पुनः कीदृशः ? संयतः सप्तदशविधसंयमधारी । पुनः कीदृशः ? ब्रह्मचारी ब्रह्मचर्यवान् ॥ २२ ॥ महायसो एस महाणुभागो, घोरव्वओ घोरपरक्कमो य । मा एयं हीलह अहीलणिज्जं, मा सव्वे तेएण भे निदहेज्जा ॥ २३ ॥
पुनरेष साधुर्महायशोवर्तते।पुनर्महानुभागोऽचिन्त्यातिशयः।पुनरेष घोरव्रतो दुर्धरमहाव्रतधारी । पुनर्घोरपराक्रमो - रौद्रमनोबलः। क्रोधादिचतुःकषायाणां जये रौदसामर्थ्यस्तस्मादेनंतपस्विनं माहीलयथाकथंभतमेनम?'अहीलणियं'अवगणनायायोग्यं स्तवनाईमित्यर्थः । एष'भे' इति भवतो-युष्मान् सर्वान् मा निर्धाक्षीन भस्मसात्कार्षीत् ॥२३॥
इति यदा नृपपुत्र्योक्तम्, तदा यक्षः किमकार्षीदित्याहएयाइ तीसे वयणाइ सुच्चा, पत्तीइ भद्दाइ सुभासियाई । इसिस्स वेयावडियट्ठयाए, जक्खा कुमारे विणिवारयति ॥ २४ ॥
यक्षाः परिवारसहिता ऋषे यावृत्त्यर्थं कुमारान् बाह्मणबालकान् विशेषेण निवारयन्ति । किं कृत्वा ? तस्याः सोमदेवस्य यज्ञाधिपस्य पुरोहितस्य पल्या भदाया वचनानि श्रुत्वा । कीदृशानि वचनानि ? सुभाषितानि - सुष्ठ भाषितानि, ब्राह्मणेभ्यः शिक्षारूपाणि प्रकाशितानि ॥२४॥
ते घोररूवा ठिअ अंतलिक्खे, असुरा तहिं तं जणं तालयंति।
ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुज्जो ॥ २५ ॥ ૨૫