________________
१९२]
[उत्तराध्ययनसूत्रे . यदि'मे'ममेहास्मिन् यज्ञपाटके एषणीयं-शुद्धमाहारमद्यावसरेन दास्यथ, तदा यज्ञानां लाभं पुण्यप्राप्तिरूपं फलं किं लप्स्यथ ? अपि तु न किमपीत्यर्थः । पात्रदानं विना किमपि न फलमित्यर्थः । कथम्भूतस्य मम ? तिसृभिर्गुप्तिभिर्गुप्तस्य ।पुनः कीदृशस्य मम ? पञ्चभिः समितिभिः सु अत्यन्तं समाहितस्य युक्तस्य । पुनः कीदृशस्य मम ? जितेन्द्रियस्य, जितानीन्द्रियाणि येन स जितेन्द्रियस्तस्य, अत्र चतुर्थीस्थाने षष्ठी । एतादृशाय पात्राय मह्यं चेत् यूयं प्रासुकमाहारं न दास्यथ तदा भवतां सर्वमपि वृथा, फलस्याभावात् ॥१७॥
अथोपाध्याय आह - . के इत्थ खत्ता उवजोइया वा, अज्झावया वा सह खंडिएहि । एयं तु दंडेण फलेण हंता, कंठमि चित्तूण खलिज्ज जो णं ॥१८॥
केचिदत्रास्मिन् यज्ञपाटके क्षत्रा:-क्षत्रिया, उपज्योतिषः अग्नेरुप-समीपेऽग्निसमीपवर्तिनः पाकस्थानस्थाः, वाथवाध्यापका-वेदपाठकाः सन्तीत्यध्याहारः । कथम्भूताः पाठकाः ? खण्डिकैश्छात्रैः सहिताः, ये एनं मुण्डं दण्डेन-वंशयष्ट्या फलेन-बिल्वादिना हत्वा, कण्ठं गृहीत्वा-गलहस्तं दत्वा स्खलयेयुः-इतो यज्ञस्थानानिष्कासयेयुः । तत्प्राकृतत्वात् ये इति वक्तव्यम् । प्राकृतत्वाद्वचनव्यत्ययः ॥ १८ ॥
अज्झावयाणं वयणं सुणित्ता, उद्धाइया तत्थ बहूकुमारा । । दंडेहिं वित्तेहिं कसेहिं चेव, समागया तं इसिं ताडयंति ॥ १९ ॥
तत्र - तस्मिन् यज्ञपाटके बहवः कुमारास्तरुणाश्छात्रा दण्डैर्वंशयष्टिभित्रैर्जलवंशैः कसैश्चर्मदवरकैस्तमृर्षि ताडयन्ति । कीदृशास्ते कुमाराः? समागताः सम्मील्यैकत्रीभूयागता अहो क्रीडनकं समागतमिति भसन्तः सम्भूय यष्ट्यादि सर्वं गृहीत्वा समागता इत्यर्थः । तं मुनि ताडयन्ति । किं कृत्वा ? उपाध्यायानां वचनं श्रुत्वा ॥१९॥
रण्णो तर्हि कोसलियस्स धूआ, भद्दत्ति नामेण अणिदियंगी। तं पासिया संजय-हम्ममाणं, कुद्धे कुमारे परिनिव्ववेइ ॥२०॥
तत्र कौशलिकस्य राज्ञः 'धूआ' इति सुता भदा वर्तते, सा भद्रा तं साधं तैाह्मणकुमारैर्हन्यमानं दृष्ट्वा क्रुद्धान्मारणोद्यतान् कुमारान् ब्राह्मणछात्रान् परिनिर्वापयति, वचनैरुपशमयतीत्यर्थः । कीदृशं तं साधुं ? संयतं संयमावस्थायां स्थितम् । कीदृशी सा भद्रा ? अनिन्दिताङ्गी, अनिन्दितमङ्गं यस्याः साऽनिन्दिताङ्गी शोभनशरीरा ॥ २० ॥
सा भद्रा किमवादीत्तदाह - देवाभिओगेण निओइएणं, दिन्नामु रन्ना मणसा न झाया । नरिंददेविंदभिवंदिएणं, जेणम्हि वंता इसिणा स एसो ॥ २१ ॥