________________
द्वादशं हरिकेशीयमध्ययनम् १२]
[१९१ ब्राह्मणत्वजातिमान् बाह्मणः, ब्राह्मण-ब्राह्मणीभ्यामुत्पन्नो ब्राह्मणो नोच्यते, किन्तु ब्राह्मणत्वेन ब्राह्मणक्रियानिष्ठत्वेन ब्राह्मणस्थितेन जातिधर्मेण विशिष्टो ब्राह्मण उच्यते । तस्माद्युष्मासु ब्रह्मक्रियानिष्ठत्वब्राह्मणत्वस्याभावान्न जातिरस्ति । ब्राह्मणा ब्रह्मचर्येणेति लक्षणोक्तित्वात् । न पुन!यं विद्यायुक्ताः विद्यायास्तु विरतिरूपफलभावात् । विद्यावानपि यावद् विरतिमान् सन्नाश्रवान् संवरद्वारेण न रुणद्धि तावत्स विद्यावानोच्यते, विद्या अपि परमार्थतस्ता एवोच्यन्ते, यासु पञ्चाश्रवपरिहार उक्तः । तस्मान भवन्तो विद्यावन्तः, भवत्सु भवदुक्तमेव जाति, विद्योपपेतत्वं ब्राह्मणलक्षणं सर्वथा नास्त्येव । तस्मात्तानि सुपापकान्येव क्षेत्राणि भवन्तः, न पुण्यक्षेत्राणि यूयं ॥१४॥
अथ कदाचित्ते एवं वदेयुः, वयं वेदविदो वर्तामहे इत्याहतुब्भेत्थ भो भारहरा गिराणं, अटुं न जाणाह अहिज्ज वेए। उच्चावयाइं मुणिणो चरंति, ताइं तु खित्ताइं सुपेसलाइं॥१५॥
भो इत्यामन्त्रणे, भो ब्राह्मणाः ! यूयं गिरां-वेदवाणीनां भारहरा-भारोद्वाहकाः । यतो यूयं वेदानधीत्य वेदानामर्थं न जानीथ । तथाहि-"आत्मा रे ज्ञातव्यो मन्तव्यो निदिध्यासितव्यः" पुनरयं 'समो मशके नागेच,"न हिंस्यात् सर्वभूतानी' त्यादिवेदवाक्यान्यधीतानि । अथ पुनर्भवद्भिर्जीवहिंसास्वेव प्रवर्त्यते । तस्मादत्र यागः पृथक् एव उच्यते, यत्र चात्मनामग्नौ दाहः । स चात्र वेदे याग एव न स्यात् । यदि च स एव - आत्मा एव भवद्भिर्न ज्ञातस्तदा किमर्थं यागं कुर्वीध्वं ? प्रथमं यागोऽपि न भवद्भिर्जायते । कानि तर्हि क्षेत्राणीत्याह-हे ब्राह्मणाः ! मुनीन् सुपेशलान्यत्यन्तं सुन्दराणि क्षेत्राणि जानीथ । ये मुनय उच्चावचानि गृहाण्युत्तमाधमानि कुलानि भिक्षार्थं चरन्ति, अथवा उच्चावयाइं 'उच्चानि महान्ति व्रतान्युच्चव्रतानि येषां तान्युच्चव्रतानि । अकारः प्राकृतत्वात्, महाव्रतधराणि तानि क्षेत्राणि भव्यानि ज्ञेयानीत्यर्थः ॥ १५ ॥
तदा छात्राः किं प्राहु:अज्झावयाणं पडिकूलभासी, पभाससे किं तु सगासि अम्हं । अवि एयं विणस्स उ अन्नपाणं, न य णं दाहामु तुमं नियंठा ॥१६॥
किन्त्विति शब्दौ निन्दा-क्रोधवाचकौ । अरे 'नियंठा' अरे दरिद्र ! त्वमुपाध्यायानां प्रतिकूलभाषी सन्, अस्मत्पाठकानां सन्मुखवादी सनस्माकं सकाशेऽस्माकं प्रत्यक्षं प्रभासषे, प्रकर्षेण यथा तथा भाषसेऽसम्बद्धं वचनं ब्रूषे, तस्मादरे एतदन्नपानं विनश्यतु, एतदाहारं सटतु, पतत्वपि परमेतदाहारं तुभ्यमुपाध्यायप्रतिकूलवादिने न दद्मः ॥१६॥
तदा यक्ष आहसमिइहिं मज्जं सुसमाहियस्स, गुत्तिहिं गुत्तस्स जिइंदियस्स । जइ मे न दाहित्थ अहेसणिज्जं, किमज्ज जन्नाण लब्भित्थ लाभं ॥१७॥ १ अयं उपनिषदः पाठः॥