SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १९०] [उत्तराध्ययनसूत्रे थलेसु बीयाई ववंति कासगा, तहेव निन्नेसु य आससाए । एयाइ सद्धाए दलाहि मज्जं, आराहए पुनमिणं खु खित्तं ॥१२॥...--- एतया-अनया उपमया श्रद्धया-भावनया मह्यं ददध्वं । 'खु' इति निश्चयेनेदं मल्लक्षणं पुण्यं-शुभं क्षेत्रमाराधयत । एतया इति कया उपमया ? तामुपमामाह-कर्षका:-क्षेत्रीकारका नरा आशंसया-विचारणया काले-वर्षाकाले स्थलेषु-उच्चप्रदेशेषु, तथैव निम्नेषु-निम्नभूमिप्रदेशेषु बीजानि वपन्ति । कोऽर्थः ? वर्षाकाले क्षेत्रीकारका बीजं वपन्त एवं चिन्तयन्ति । यदि प्रचुरा वर्षा भविष्यन्ति, तदा स्थलेषु फलावाप्तिर्भविष्यति, यदि चाल्पा वर्षा भविष्यति, तदा निम्नप्रदेशेषु फलावाप्तिर्भविष्यति । उभयत्रोच्च-नीचप्रदेशेषु बीजं वपन्ति, न पुनरेकत्रैव बीजं वपन्ति । यदि यूयं ब्राह्मणा निम्नभूमिसदृशास्तदाहं स्थलभूमिसदृशो गण्यः, मह्यमपि दातव्यम्, न केवलं यूयमेव क्षेत्रप्रायाः, किन्त्वहमपि पुण्यक्षेत्रमस्मीति भावः ॥१२॥ इति श्रुत्वा ते ब्राह्मणास्तं प्रत्यूचुस्तदाहखित्ताणि अम्हं विइयाणि लोए, जहिं पकिन्ना विरुहंति पुन्ना। जे माहणा जाइविज्जोववेया, ताइं तु खित्ताइ सुपेसलाई ॥१३॥ अरे पाखण्डपाश! तानि क्षेत्राण्यस्माभिर्विदितानि वर्तन्त इत्यध्याहारः । जहिं' इत्यत्र क्षेत्रेषु प्रकीर्णान्युप्तानि बीजानि प्रदत्तानि दानानि पूर्णानि विरुहन्ति विशेषेणोद्गच्छन्ति, फलदानि भवन्ति । विभक्तिलिङ्गव्यत्ययस्तु प्राकृतत्वात् । ये ब्राह्मणा जातिविद्योपपेतास्ते तु ब्राह्मणाः सुतरामतिशयेन पेशलानि-मनोहराणि क्षेत्राणि ज्ञेयानि । तत्र जातिाह्मणत्वम्, विद्या वेदाध्ययनम्, जातिश्च विद्या च जातिविद्ये, ताभ्यामुपपेताः सहिता जातिविद्योपपेताः । 'उपअपइताः' इत्यत्र शकंध्वादिषु पररूपमि [१/१/६४ पाणिनीयवार्त्तिकः] त्यनेनोपशब्दस्याकारलोपे पश्चाद्गुणेन सिद्धिः । यदुक्तम् "सममश्रोत्रिये दानं, द्विगुणं ब्राह्मणं ब्रुवे । सहस्रगुणमाचार्य, अनंतं वेदपारगे ॥ १ ॥" । इत्युक्तत्वाद्वेदपारगा ब्राह्मणाः पुण्यक्षेत्राणि ॥१३॥ अथ यक्षः प्राहकोहो य माणो य वहो य जेसिं, मोसं अदत्तं च परिग्गहं च । ते माहणा जाइविज्जाविहूणा, ताई तु खित्ताई सुपावयाइं ॥१४॥ भो ब्राह्मणाः ! येषां भवतां मध्ये क्रोधों वर्तते, च पुनर्मान-माया-लोभाश्च वर्तन्ते, चकारान्मानादीनां ग्रहणम् । च पुनर्वधो-जीवहिंसा वर्तते, मृषावादश्चास्ति, अदत्तमदत्तादानमप्यस्ति, च शब्दान्मैथुनं कामासक्तिरस्ति, च पुनः परिग्रहो वर्तते । ते यूयं के ब्राह्मणाः ? जाति-विद्याविहीनाः । 'क्रियाकर्मविशेषेण चातुर्वर्ण्य व्यवस्थितमि'ति वचनात् ।
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy