________________
द्वादशं हरिकेशीयमध्ययनम् १२]
[१८९ भो ब्राह्मणाः! भवद्भिरुक्तं कोऽसि रे त्वं? तस्योत्तरम्-अहं श्रमणोऽस्मि, श्राम्यति तपसि श्रमं करोतीति श्रमणस्तपस्वी । पुनरहं संयतः सावधव्यापारेभ्यो निवर्तितः । पुनरहं ब्रह्मचारी, ब्रह्मणि-भोगत्यागे चरति-रमते इत्येवंशीलो ब्रह्मचारी । पुनरहं धनपचनपरिग्रहाद्विरतः, तत्र धनं-गोमहिष्यश्वादिचतुष्पदरूपम्-पचनमाहारादिपाकः, परिग्रहो गणिमधरिम-मेय्य-परिच्छेद्यादिदव्यरूपः।कया आशया इहागतोऽसि ? अस्योत्तरं-भो ब्राह्मणाः ! भिक्षाकाले-भिक्षावसरेऽन्नस्यार्थायात्रागतोऽस्मि । कीदृशस्यानस्य ? परप्रवृत्तस्य, परस्मैपरार्थं प्रवृत्तं पक्वं परप्रवृत्तम्, गृहस्थेनात्मार्थं राद्धम् ॥९॥
वियरिज्जइ खज्जइ भुज्जइ य, अन्नं पभूयं भवयाणमयं । जाणाहि मे जायणजीविणुत्ति, सेसावसेसं लहओ तवस्सी ॥१०॥
अत्र भवयाणं' इति भवतामेतत् समीपतरवर्त्यनं प्रभूतम्,अद्यते इत्यन्नं-भक्ष्यं प्रभूतंप्रचुरं विद्यते, तदेव प्रचुरत्वं प्रदर्श्यते । वियरिज्जइ' इति वितीर्यते दीन-हीना-ऽनाथेभ्यः सर्वेभ्यो वितीर्यते विशेषेण दीयते । पुनः खाद्यते खज्जकघृतपूरादिकं सशब्दं भक्ष्यते । पुनर्भुज्यते तन्दुल-मुद्दाल्यादि सघृतमाकण्ठमभ्यवहार्यते । इत्यनेन अत्र काचित्कस्यापि भक्ष्यवस्तुनो न्यूनता न दृश्यते । यूयं 'मे' इति मां याचनजीविनं जानीत । याचनेन-भिक्षया जीविनं जीवितव्यं अस्येति याचनजीवितम्, इति अस्मात्कारणात् तपस्वी मल्लक्षणो मुनिरपि, अत्र शेषावशेष शेषादपि शेषं शेषावशेषमुद्धरितं प्रान्तप्रायमाहारं लभतां-प्राप्नोतु, इत्यपि यूयं जानीत । कोऽर्थः ?स मुनिरवादीत्, अत्रान्न यत्र तत्र परिष्ठाप्यते, भवद्भिरेतादृशी बुद्धिः करणीया, अयं तपस्वी आहारार्थमागतोऽस्ति,अयमपि शेषावशेषमाहारंप्राप्नोतु, इति विचार्य मह्यं शुद्धमाहारं दीयताम् ॥१०॥
इति यक्षेणोक्ते सति ते ब्राह्मणाः किं प्राहुरित्याहउवक्खडं भोयणमाहणाणं, अत्तट्ठियं सिद्धमिहेगपक्खं । न उ वयं एरिसमन्नपाणं, दाहामु तुज्झं किमिहं ठिओ सि ॥११॥
रे भिक्षो ! इहास्मिन् यज्ञपाटके भोजनं यदुपस्कृतं घृत-हिंग्वा-धान्यक-मिरचलवण-जीरकादिभिः कृतोपस्कारं शाकादिकम् । पुनरिह सिद्धं चतुर्विधाहारं राद्धं वर्तते । तद् रे भिक्षो ! आहारमेकपक्षं वर्तते एकः पक्षो ब्राह्मणो यस्य तत् एकपक्षम्, एतदाहारं शूदेभ्यो न देयमस्ति, ब्राह्मणानां वर्तते, पुनरिदमाहारमात्मार्थिकम्, आत्मार्थे भवमात्मार्थिकम्, ब्राह्मणैरप्यात्मनैव भोज्यम्, न त्वन्यस्मै कस्मैचिद् देयमित्यर्थः । 'तु' इति तेन हेतुना वयमेतादृशं ब्राह्मणभोज्यमनपानं तुभ्यं न दास्यामः । इह त्वं किं स्थितोऽसि ? अस्माकं धर्मशास्त्रे उक्तमस्ति
न शूद्राय मतिं दद्या-नोच्छिष्टं न हविष्कृतम्।
न चास्योपदिशेद्धर्मं, न चास्य व्रतमादिशेत् ॥ १ ॥ [११] तदा यक्षः पुनरवादीत्