________________
१८८]
[ उत्तराध्ययनसूत्रे पांशुपिशाचभूतः, पांशुना-रजसा पिशाचभूतः पांशुपिशाचभूतः, धूल्यावगुण्ठितशरीररत्वेन मलिनवस्त्रत्वेन भूततुल्य इत्यर्थः । एतादृशः कोऽयं शं (सं) करदूष्यं कण्ठे परिधृत्यात्रागच्छति ? समीपे आगतं दृष्ट्वा एवमूचुरित्यर्थः । शं(सं) कर-उत्करटकस्तत्रस्थः दूष्यंवस्त्रं शं (सं)-करदूष्यम् । यद्यपि तस्य साधोवस्त्रमुत्करटकस्य नास्ति, तथापि तेषामत्यन्तघृणोत्पादकत्वेन तैरुक्तम्, कोऽयमुत्करटकस्य वस्त्रं कण्ठे परिधृत्य पिशाचसदृशो भ्रमन्नत्रागच्छति ? स हि हरिकेशी साधुः कुत्रापि आत्मीयमुपकरणं न मुञ्चति, सर्व वस्त्रोपध्युपकरणादिकं गृहीत्वैव भिक्षाद्यर्थं भ्रमतीति भावः ॥६॥
पुनस्ते किमूचुरित्याहकयरे तुम इय अदंसणिज्जे, का एव आसा इहमागओसि ।
ओमचेलगा पंसुपिसायभूया, गच्छ खलाहि किमिहं ठिओसि ॥७॥ __'रे' इति नीचामन्त्रणे अवमचेलकः- सटितपटितवस्त्रधारी धूलीधूसरभूतकल्पस्त्वं कोऽसि ? कया आशया इह यज्ञपाटके आगतोऽसि ? 'का एव आसा' इति प्राकृतत्वात्, वकारोऽपि लाक्षणिकः । कीदृशस्त्वं ? 'इय अदंसणिज्जे' अनेन मलिनवस्त्रादिधारणेन अदर्शनीयः, द्रष्टुमयोग्यः, त्वदर्शनादेवास्माकं धर्मो विलीयते । अत्र गाथायां 'ओमचेलगा पंसुपिसायभूया' इति पुनरुक्तिरत्यन्तनिर्भर्त्सनार्था । रे भूतप्राय ! गच्छ-इतो यज्ञस्थानाद व्रज । 'खलाहित्ति' देशीयभाषया अपसर दूरं दृष्टिमार्गात् । किमिह स्थितोऽसि ? त्वया सर्वथाऽत्र न स्थातव्यमित्यर्थः । तैाह्मणैरित्युक्ते सति स साधुस्तु किमपि न अवादीत्, तदा तद्भक्तस्य यक्षस्य कृत्यमाह- ॥७॥
जक्खो तर्हि तिदुयरुक्खवासी,अणुकंपओतस्स महामुणिस्स । पच्छायइत्ता नियगं सरीरं, इमाइ वयणाइमुदाहरित्था ॥८॥
तस्मिन् काले तिन्दुकवृक्षवासी यक्ष इमानि वक्ष्यमाणानि वचनान्युदाहार्षीदवोचदित्यर्थः । किं कृत्वा ? निजकं शरीरं प्रच्छाद्य, स्वशरीरं प्रच्छन्नं विधाय, साधुशरीरे प्रवेशं कृत्वा, कथम्भूतः स यक्षः? तस्य मुनेरनुकम्पकः, अनुरूपं कम्पते चेष्टते इत्यनुकम्पकः, साधोः सेवक इत्यर्थः ।तिन्दुकवनमध्ये एको महान् तिन्दुकवृक्षोऽस्ति । तस्य वृक्षस्याधस्तस्य चैत्यमस्ति । तत्र साधुः कायोत्सर्गेण तिष्ठति । तस्य साधोर्धर्मानुष्ठानं दृष्ट्वा गुणरागी सेवकः सञ्जातोऽस्तीति भावः । स यक्ष इत्यवादीत् ॥८॥
स यक्षः किमवोचत् तदाह - . समणो अहं संजओ बंभयारी, विरओ धणपयणपरिग्गहाओ।
परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इहमागओमि ॥९॥ १ “सङ्कर-उत्कुरुडिका तत्र दूष्यं - वस्त्रं सङ्करदूष्यम्"-इति उत्त० सर्वार्थसिद्धिवृत्तौ पृ० २३८ B.।