________________
द्वादशं हरिकेशीयमध्ययनम् १२]
मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ ।
भिक्खट्ठा बंभइज्जंमि, जन्नवाडमुवट्ठिओ ॥ ३ ॥
T
पुनः कीदृश: ? मनोगुप्त्या गुप्तो मनोगुप्तः, पुनर्वचनगुप्त्या गुप्तो वचोगुप्तः, पुनः कायगुप्त्या गुप्तः कायगुप्तः, इत्यत्र सर्वत्र मध्यमपदलोपी समासः । पुनर्जितेन्द्रियः, एतादृशो हरिकेशीबलः साधुभिक्षार्थं ब्राह्मणानाम् ईज्या ब्राह्मणेज्या, तस्यां ब्राह्मणेज्यायांब्राह्मणयज्ञपाटके उपस्थितः । यत्रब्राह्मणा यज्ञं कुर्वन्ति तत्र यज्ञपाटकान्तिके प्राप्तः ॥ ३ ॥ तं पासिउणमेज्जंतं, तवेण परिसोसियं । पंतोवहिउवगरणं, उवहसंति अणारिया ॥ ४॥
[ १८७
तं हरिकेशीबलं साधुम् ' एज्जंतं' आयान्तं 'पासिउण' दृष्ट्वा अनार्या दुष्टा ब्राह्मणा उपहसन्ति - उपहासं कुर्वन्ति । कीदृशं तं ? तपसा परिशोषितम्, तपसा दुर्बलीकृतम् । पुनः कीदृशं तं ? प्रान्तोपध्युपकरणं- जीर्णवस्त्रोपधिधारकम्, प्रान्तं - जीर्णं मलिनत्वादिनासारम्, उपधिर्वर्षाकल्पादिः, स एव उपकरणं धर्मोपष्टम्भहेतुरस्येति प्रान्तोपध्युपकरणस्तं प्रान्तोपध्युपकरणम् ॥ ४॥
जाइमयपडिथद्धा, हिंसगा अजिइंदिया ।
अबंभचारिणो बाला, इमं वयणमब्बवी ॥ ५ ॥
ते ब्राह्मणा विवेकविकला इदं वचनमब्रुवन् । कीदृशास्ते ? जातिमदप्रतिस्तब्धाः, जातिमदेन ब्राह्मण-ब्राह्मण्युद्भवत्वेन यो मदोऽहङ्कारस्तेन प्रतिस्तब्धा-अनम्रा जातिमदप्रतिस्तब्धाः । पुनः कीदृशाः ? हिंस्रका जीवहिंसाकरणशीलाः । पुनः कीदृशाः ? अजितेन्द्रिया-विषयासक्ताः । पुनः कीदृशाः ? अब्रह्मचारिणो-मैथुनाभिलाषिणः, अब्रह्मणिकामसेवनायां चरन्ति - रमन्त इत्यब्रह्मचारिणः कुशीला इत्यर्थः ॥ ५ ॥
ते ब्राह्मणाः किमबुवन्नित्याह
कयरे आगच्छइ दित्तरूवे, काले विकराले फोक्कनासे ।
ओमचेलए पंसुपिसायभूए, संकरसं परिहरिय कंठे ॥ ६ ॥
कतरः कोऽयमागच्छति ? अतिशयेन क इति कतरः, एकारः प्राकृतत्वात् । परमयं कीदृश: ? दीमरूपो बीभत्सरूपो, दीप्तवचनं बीभत्सार्थवाचकम् । पुनः कीदृश: ? कालःकालवर्णः । पुनः कीदृग् ? विकरालो विकृताङ्गोपाङ्गधरः, लम्बोष्ठदन्तुरत्वादिविकारयुक्तः । पुनः कीदृश: ? पोक्कनाशः, पोक्का - अग्रे स्थूलोन्नता, मध्ये निम्ना चिप्पट्टा नासा यस्य पोक्कनासः । पुनः कीदृग् ? अवमचेलः, अवमान्यसाराणि चेलानि वस्त्राणि यस्य सोऽवमचेलः, मलाविलत्वेन जीर्णत्वेन त्याज्यप्रायवस्त्रधारीत्यर्थः । पुनः कीदृश: ?