________________
१८६]
[उत्तराध्ययनसूत्रे एकरात्रिं यावदक्षिता, प्रभाते यक्षो दूरीभूतः, स्वाभाविकरूपो यतिस्तामाह-भदे ! अहं संयमी नैव स्त्रीस्पर्श त्रिधा शुद्ध्या करोमि, न मया त्वत्करः करेण गृहीतः, किन्तु मद्भक्तेन यक्षेणैव त्वं विडम्बिता, स च साम्प्रतं दूरे गतः, मत्तस्त्वं दूरे भव । महर्षिणेत्युक्ता सा प्रभाते सर्वं स्वप्नमिव मन्यमाना भृशं विखिन्ना राज्ञो गृहे गता । सर्वं तत्स्वरूपं राज्ञ आचख्यौ । तदानीं राज्ञः पुर उपविष्टेन रुद्रदेवपुरोहितेनोक्तम् राजनियमृषिपत्नी, तेन मुक्ता ब्राह्मणाय दीयते, ततो राज्ञा सा तस्यैव दत्ता । पुरोहितोऽपि तया सह विषयसुखमनुभवन् कियन्तं कालं निनाय।
अन्यदा तस्या यज्ञपत्नीत्वकरणार्थं यज्ञस्तेन कर्तुमारब्धः । तत्र यज्ञमण्डपे देशान्तरेभ्योऽनेकभट्टाः समायाताः । तदर्थं भोजनसामग्री तत्र प्रगुणीकृता । अस्मिन्नवसरे तत्र स महर्षिर्मासोपवासपारणके गोचर्यां भ्रमन् यज्ञमण्डपे समायातः, इत्यादि कथानकं हरिकेशीबलस्योक्तम्, शेषकथानकं सूत्रादेवावसेयम्
सोवागकुलसंभूओ, 'गुणत्तयधरो मुणी ।
हरिएसबलो नाम, आसी भिक्खू जिइंदिओ ॥१॥ स हरिकेशीबलो नाम प्रसिद्धो भिक्षुरासीत् । कीदृशः स साधुः ? जितेन्द्रियः, जितानी इन्द्रियाणि येन स जितेन्द्रियो-विषयजेता । पुनः कीदृशः ?श्वपाककुलसम्भूतः, श्वपाकचाण्डालस्तस्य कुले सम्भूतः । पुनः कीदृशः ? मुनिर्मन्यते जिनाज्ञामिति मुनिर्जिनाज्ञापालक इत्यर्थः । पुनः कीदृशः ? गुणत्रयधरः, गुणत्रयं ज्ञान-दर्शन-चारित्राख्यं धरतीति गुणत्रयधरः ॥१॥
इरिएसणभासाए, उच्चारसमिईस य ।
जओ आयाणनिक्खेवे, संजओ सुसमाहिओ ॥२॥ पुनः कथम्भूतो हरिकेशीबलो मुनिः ? ईर्यैषणाभाषोच्चारसमितिषु 'जओ' इति यतो-यत्नवान् । ईर्या च एषणा च भाषा च उच्चारश्च ईषणाभाषोच्चारास्तेषां समितयः सम्यग्व्यवहारा ईषणाभाषोच्चारसमितयस्तासु ईरणं-ईर्या गमना-ऽऽगमनम्, तस्य समिती गमना-ऽऽगमनव्यवहारे यत्नवान् । एषणमेषणा आहारग्रहणम्, तत्र समितिरेषणासमितिस्तत्र यत्नवान् । एवं भाषासमितौ-भाषाव्यवहारे यत्नवान् । 'भासाऐ' इत्यत्र एकार आर्षत्वात् तिष्ठति । उच्चारसमितौ-मूत्र-पुरीषादिपरिष्ठापनविधौ यत्नवान् ।पुनः कीदृशो हरिकेशीबलः साधुः? आदाननिक्षेपे-वस्त्र-पात्राद्युपकरणग्रहण-मोचने सं-सम्यक् प्रकारेण यतः संयतः संयमी।पुनः कीदृशः? सुतरामतिशयेन समाधितः समाधिसहितः, चित्तस्थैर्यसहित इत्यर्थः । पञ्चसमितियुक्तः स साधुरस्तीत्यर्थः ॥२॥ १ गुणुत्तरधरो-L.D. ।अन्यसंस्करणेऽपि । तत्र वृत्तिरपि एवं गुणोत्तरान् प्रधानान् ज्ञानादीन् धारयतीति गुणोत्तरधरो मुनि:-" इत्युक्तं सर्वार्थसिद्धिवृत्यां पृ. २३७ B. ॥