________________
[१८५
द्वादशं हरिकेशीयमध्ययनम् १२]
अन्यदा वसन्तोत्सवे प्राप्ते चाण्डालकुटुम्बानि विविधखाद्यपानकरणाय पुराद् बहिर्मिलितानि सन्ति, स बलनामा बालकः परबालैः समं क्लेशं कुर्वन् ज्ञातिवृद्धैर्निर्मूढः । दूरस्थः स विलासक्रीडापराणि परबालानि पश्यति, परं मध्ये समायातुं न शक्नोति । तस्मिन्नवसरेतत्र सर्पो निर्गतः, सविष इति कृत्वा चाण्डालैारितः। पुनस्तत्र प्रलम्बमलशिकं निर्गतं, निर्विषमिति कृत्वा तैर्न विनाशितम् । तादृशमरणं दृष्ट्वा तेन बलबालेन चिन्तितम् निजेनैव दोषेण प्राणिनः पराभवं सर्वत्र प्राप्नुवन्ति । यद्यहं सर्पसदृशः सविषस्तदा पराभवपदं प्राप्तः, यद्यलशिकवनिरपराधोऽभविष्यम्, तदा न मे कश्चित्पराभवोऽभविष्यदिति सम्यग्भावयतस्तस्य जातिस्मरणमुत्पन्नम्।विमानवाससुखं स्मृतिमार्गमागतम् ।जातिमदविपाकोऽपि ज्ञातः । संवेगमागतेन दीक्षा गृहीता।
सहरिकेशीबलः शुद्धक्रियां पालयन् षष्ठा-ऽष्टम-दशम-द्वादश-मासार्ध-मासादितपस्तपन् क्रमेण विहारं कुर्वन् वाराणसी नगरी प्राप्तः । तत्र तिन्दुकवने मण्डिकयक्षप्रासादे स्थितो मासक्षपणादितपः करोति । तद्गुणावर्जितश्च यक्षस्तं महर्षि निरन्तरं सेवते ।अन्यदा तत्र वने एकोऽपरो यक्षः प्राघूर्णकः समागतः, तेन मण्डिकयक्षस्य पृष्टम्-कथं त्वं मद्वने साम्प्रतं नायासि ? तेनोक्तमहमिहस्थितमिमं मुनि सेवे, एतद्गुणावर्जितश्चान्यत्र गन्तुंनोत्सहे। सोऽप्यागन्तुको यक्षस्तद्गुणावर्जितो बभूव ।आगन्तुकयक्षेण मण्डिकयक्षस्योक्तं-एतादृशा मुनयो मद्वनेऽपि सन्ति, तत्र गत्वा अद्य तान् सेवामहे, इत्युक्त्वा द्वावपि तौ तत्र गतौ । विकथादिप्रमादपरास्ते तत्र ताभ्यां दृष्टाः, तेभ्यो विरक्तौ तौ यक्षौ पश्चात्तत्रागत्य हरिकेशीबलं महामुनि प्रणमतः, प्रत्यहं सेवते स्म । ___अन्यदा तत्र यक्षायतने वाराणसीपतिकौशलिकराजपुत्री भदानाम्नी नानाविधपरिजनानुगता पूजासामग्री गृहीत्वा समायाता । यक्षप्रतिमा पूजयित्वा प्रदक्षिणां कुर्वन्ती मलक्लिन्नवस्त्रगात्रं दुस्सहतपःकरणकृशं कुरूपं तं महामुनिं दृष्ट्वा यत्कृतं निससर्ज । यक्षेण चिन्तितम्-इयं महामुनि तिरस्कुरुते, अतो मया शिक्षणीयेति ।अधिष्ठिता तेन यक्षेण, असमञ्जसं प्रलपन्ती दासीभिरुत्पाट्य राजगृहं नीता । राज्ञा मान्त्रिका वैद्याश्चाकारिताः । तैश्चिकित्सायां कृतायामपि न तस्याः कश्चिद्विशेषो जातः । अथ तस्था मुखे सङ्क्रान्तो यक्षः स्पष्टमेवमाह-अनया मदायतनस्थितो महानुभावः संयमी निन्दितः, यदीयं तस्य संयमिनः पाणिग्रहणं कुरुते तदा मयास्या वपुर्मुच्यते, नान्यथेति ।चिन्तितं राज्ञा, ऋषिपत्नी भूत्वापीयं जीवत्विति विमृश्य यक्षवचनं राज्ञा प्रतिपन्नम् । सा स्वस्थशरीरा जाता, सर्वालङ्कारभूषिता गृहीतविवाहोपकरणा महाविभूत्या यक्षायतने गता, तस्य महर्षेः पादौ प्रणम्यैवं विज्ञप्ति चकार । हे महर्षे ! त्वं मत्करं करेण गृहाण । मुनिना भणितं-भदे ! बुधजननिन्दितयानया सङ्कथयालम् ।अपि च ये साधव एकस्यां वसतौ स्त्रीभिः समं वासमपि नेच्छन्ति, तेन साम्प्रतं करं करेण कथं गृह्णन्ति ? सिद्धिवधूबद्धरागाः साधवः कथमशुचिपूर्णासु युवतीषु रज्यन्ते ? अथ तेन यक्षेण तस्य महर्षेः शरीरं प्रच्छाद्य तत्सदृशं भिन्नरूपं विकुळ करं करेण जगृहे।
२४