________________
अथ द्वादशं हरिकेशीयमध्ययनं प्रारभ्यते । एकादशेऽध्ययने बहुश्रुतपूजा प्रोक्ता, अथ द्वादशे बहुश्रुतेनापि तपो विधेय इत्येकादशद्वादशयोः सम्बन्धः ।अतोऽत्राध्ययने तपोमाहात्म्यमाह-हरिकेशबल साधुस्तपस्वी बभूव, तत्सम्बन्धो यथा-मथुरानगर्यां शङ्खो नाम राजा विषयसुखविरक्तः स्थविराणामन्तिके निष्क्रान्तः, कालक्रमेण गीतार्थो जातः, पृथ्वीमण्डले परिभ्रमन् हस्तिनागपुरे प्राप्तः, तत्र भिक्षानिमित्तं प्रविष्टः । तत्रैको मार्गोऽतिवोष्णोऽस्ति, उष्णकाले केनापि गन्तुं न शक्यते, ततस्तन्मार्गस्य हुतवह इति नाम सञ्जातम् । तेन मुनिनासन्नगवाक्षस्थितः सोमदेवाभिधानः पुरोहितः पृष्टः, किमेतेन मार्गेण व्रजामीति ? पुरोहितेन चिन्तितं यद्यसौ हुतवहमार्गे गच्छति, तदा दह्यमानममुं पश्यतो मम कौतुकमनोरथः पूर्णो भवतीति । ___अतस्तेन स एव मार्गो निर्दिष्टः, ईर्योपयुक्तो मुनिस्तेनैव मार्गेण गन्तुं प्रवृत्तः । लब्धिपात्रस्य तस्य पादप्रभावतस्तादृशोऽपि मार्गः शान्तो बभूव । तस्मिन्मार्गे शनैः शनैश्चलन्तं मुनिं वीक्ष्य स पुरोहितः स्वावासगवाक्षादुत्तीर्य स्वपदाभ्यां तं मागं स्पृष्टवान्, हिमवच्छीतलो मार्गः। तेन ज्ञातं मुनिपादमाहात्म्यम्, एवं च चिन्तितं-हा! मया पापकर्मणा पुण्यात्मनोऽस्य कीदृशो मार्गः प्रकाशितः, परमयं पादस्पर्शादेव मार्गतापोपशान्तिर्जाता । ततो यद्यहमस्य शिष्योऽभूवं तदा मामेतत्प्रायश्चित्तं भवतीति चिन्तयित्वा तस्य मुनेः पुरः स्वपापं प्रकाशितम्, पादौ च प्रणतौ । मुनिनापि तस्य सम्यग्धर्मः प्रकाशितः । जातसंवेगेन तेन सोमदेवेन तस्य मुनेरन्तिके दीक्षा गृहीता, चारित्रं विशेषात् पालयति । परमहं ब्राह्मणत्वादुत्तमजातिरिति मदं कुरुते, परं नैवं भावयति ।
"गुणैरुत्तमतां याति, न तु जातिप्रभावतः । क्षीरोदधिसमुत्पन्नः, कालकूटः किमुत्तमः ॥ १ ॥" किञ्च"कौशेयं कृमिजं सुवर्णमुपलाद् दुर्वापि गोरोमतः, पङ्कात्तामरसं शशाङ्कमुदधेरिन्दीवरं गोमयात् ।" काष्टादग्निरहे: फणादपि, मणिर्गोपित्ततो रोचना,
जाता लोकमहार्घतां निजगुणैः, प्राप्ताश्च किं जन्मना ॥ २॥ [] एवं परमार्थमभावयन् स जातिमदस्तब्धः सोमदेवः कियत्कालं संयममाराध्य कालक्रमेण मृतो देवो जातः । तत्र चिरकालं वाञ्छितसुखानि भुक्तवान् । ततश्च्युतो गङ्गातीरे हरिकेशाधिपस्य बलकोष्ठाभिधानस्य चण्डालस्य भार्याया गौर्याः कुक्षौ समुत्पन्नः। सा च स्वप्ने फलितमाम्रवृक्षं ददर्श,स्वप्नपाठकानां च कथितवती। तैरुक्तं-तव प्रधानपुत्रो भविष्यतीति । कालमासे दारको जातः, जातिमदकरणेनास्य चण्डालकुलोत्पत्तिर्जाता। स बालः सौभाग्यरूपरहितो बान्धवानामपि हसनीयः, तस्य बल इति नाम प्रतिष्ठितम् ।स च वर्धमानः प्रकामं क्लेशकारित्वेन सर्वेषामुद्वेगकारी जातः ।