________________
एकादशं बहुश्रुतपूजाऽऽख्यमध्ययनम् ११]
[१८३ ___ यथासइति प्रसिद्धःस्वयम्भूरमणनामाचरमोदधिविराजते,तथा बहुश्रुतोऽपिविराजते। कथम्भूतः स्वयम्भूरमणोदधिः? अक्षयं शाश्वतमविनाशि उदकं-जलं यस्य सोऽक्षयोदकः । पुनः कथम्भूतः स्वयम्भूरमणसमुद्रः? नानारत्नप्रतिपूर्णः, बहुप्रकारैरसङ्ख्यै र्माणिक्यैर्भूतः, तथा बहुश्रुतोऽपि स्वयम्भूरमण इव।कथम्भूतो बहुश्रुतः?अक्षयज्ञानोद-कोऽक्षयज्ञानजल:, पुनर्बहुश्रुतः स्वयम्भूरमणसमुद्रवन्नानाप्रकारातिशयरूपरत्नैः सम्पूर्णः ॥३०॥ समुद्दगंभीरसमा दुरासया, अचक्किया केणइ दुप्पहंसया । सुयस्स पुण्णा विउलस्स ताइणो, खवित्तु कम्मं गइमुत्तमं गया ॥३१॥
एतादृशाः श्रुतस्य पूर्णा बहुश्रुता उत्तमां गतिं गताः-प्रधानं स्थानं मुक्ति प्राप्ताः । किं कृत्वा ? कर्माणि क्षपयित्वा । श्रुतस्य पूर्णा इत्यत्र तृतीयास्थाने षष्ठी, श्रुतेन-श्रुतज्ञानेन पूर्णाः । कीदृशस्य श्रुतस्य ? विपुलस्य-विस्तीर्णस्य, अनेक-हेतु-युक्ति-दृष्टान्तोत्सर्गाऽपवादनयाद्यनेकरहस्यार्थयुक्तस्य । कीदृशा बहुश्रुताः ? समुद्रगम्भीरसमाः समुदस्य गाम्भीर्येण तुल्याः समुदगम्भीरसमाः । पुनः कीदृशाः ? दुराश्रयाः, केनापि परवादिना कपटं कृत्वा न आश्रयणीयाः, केनापि ठगितुमशक्या इत्यर्थः । पुनः कथम्भूताः ? अचकिता-अत्रासिताः, परीषहैस्त्रासमप्रापिताः । पुनः कीदृशाः ? दुष्प्रहंस्याः परवादिभिः पराभवि-तुमशक्याः । एतादृशाः श्रुतज्ञानधरा मोक्षं गता गच्छन्ति गमिष्यन्ति च ॥३१॥
तम्हा सुअमहिट्ठिज्जा, उत्तमटुं गवेसए । जेणप्पाणं परं चेव, सिद्धि संपाउणिज्जासे ॥३२॥त्ति बेमि ॥
उत्तमार्थगवेषको मोक्षार्थी पुमान्, तस्मात् बहुश्रुतस्य मोक्षप्राप्तियोग्यत्वात् श्रुतं सिद्धान्तं अधितिष्ठेत्, उत्तमश्चासावर्थश्च उत्तमार्थो - मोक्षार्थस्तंगवेषते इति उत्तमार्थगवेषकः । येन श्रुतेन आत्मानं च पुनः परमपिसिद्धि प्रापयेत्-मोक्षंगमयेत्।कोऽर्थः? बहुश्रुतः स्वयमपि मोक्षं प्राप्नोति, अन्यमपि स्वसेवकं मोक्षं प्रापयतीत्यर्थः । इत्यहं ब्रवीमि । सुधर्मास्वामी जम्बूस्वामिनं प्रत्याह ॥३२॥
इति बहुश्रुतपूजाख्यमेकादशमध्ययनं सम्पूर्णम् ॥११॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यश्रीलक्ष्मीवल्लभगणिविरचितायां बहुश्रुतपूजाख्यस्याध्ययनस्यार्थः सम्पूर्णः ।