________________
१८२]
[उत्तराध्ययनसूत्रे उपद्रवेभ्यो रक्षितः सुरक्षितः । पुनः कीदृशः कोष्ठागार: ? नानाधान्यप्रतिपूर्णः, चतुर्विंशतिधान्यैः प्रतिपूर्णो भृतः । अथ बहुश्रुत कीदृशः ? सुरक्षितः, सुतरामतिशयेन गच्छसङ्घाटस्थमुनिभिर्यलेन रक्षितः । पुनर्नानाप्रकारैरङ्गोपाङ्गादिरूपैर्धान्यैः प्रतिपूर्ण इत्यर्थः ॥ २६ ॥
जहा से दुमाण पवरा, जंबूनाम सुदंसणा। -
अणाढियस्स देवस्स, एवं भवई बहुस्सुए ॥२७॥ यथा दुमाणांमध्ये जम्बूनामा सुदर्शना इत्यपरनामा दुमो-वृक्षः प्रवर:-प्रधानःशोभते, तथा बहुश्रुतोऽपि सर्वमुनीनां मध्ये प्रधानो विराजते।सच जम्बूसुदर्शनानामा वृक्षोऽनादृतस्य जम्बूद्वीपाधिष्ठातृदेवस्य वर्तते । तस्य हि जम्बूद्वीपाधिपाश्रितत्वेन सर्ववृक्षेभ्यः प्रधानत्वं ज्ञेयमित्यर्थः । बहुश्रुताऽपि मिष्टफलसदृशसिद्धान्तार्थफलप्रदः, देवादिभिरगम्यः ॥२७॥
जहा सा नईण पवरा, सलिला सागरंगमा ।
सीया नीलवंतप्पवहा, एवं हवइ बहुस्सुए ॥२८॥ यथा 'सा' इति प्रसिद्धा नदीनां मध्ये सीतानाम्नी नदी प्रवरा-प्रधाना शोभते । तथा बहुश्रुतोऽपि शोभते । कथम्भूता सीता नदी ? सलिला, सलिलं पानीयमस्या अस्तीति सलिला, नित्यनीरा । पुनः कथम्भूता सीता ? सागरंगमा, सागरं गच्छतीति सागरंगमा । पुनः कीदृशा सीता ? 'नीलवंतप्पवाहा' नीलवतः पर्वतात् प्रवाहो यस्याः सा नीलवत्प्रवाहा, नीलवत्पर्वतादुत्तीर्णेत्यर्थः । बहुश्रुतोऽपि साधूनां मध्ये प्रधानः, निर्मलजलतुल्यसिद्धान्तसहितः । पुनः सागरमिव मुक्तिस्थानंगामी ।पुनर्बहुश्रुतो नीलवत्पर्वतसदृशोन्नतकुलात्प्रसूतः, उत्तमकुलप्रसूतो हि सद्विद्याविनयौदार्यगाम्भीर्यादिगुणयुक् स्यात् ॥ २८ ॥
जहा से नगाण पवरे, सुमहं मंदरे गिरी ।
नाणोसहिपज्जलिए, एवं हवई बहुस्सुए ॥ २९ ॥ यथासइतिप्रसिद्धोनगानां-पर्वतानांमध्ये सुतरामतिशयेनमहानुच्चस्तरो मन्दरो मेरुगिरिर्मेरुपर्वतःशोभते,तथा बहुश्रुतोऽपिशोभते।कथम्भूतो मेरुः? नानौषधीप्रज्ज्वलितः, नानाप्रकाराभिरौषधीभिः शल्य-विशल्या-संजीवनी-संरोहिणी-चित्रावल्ली-सुधावल्लीविषापहारिणी-शस्त्रनिवारिणी-भूतनागदमन्यादिभिर्मूलीभिः प्रज्ज्वलितो-जाज्वल्यमानः, एवं बहुश्रुतः सर्वसाधूनां प्रवरो गुणैरुच्चस्तरः, श्रुतस्य माहात्म्येनात्यन्तं स्थिरः, परवादिवादवात्याअचलः,अनेकलब्ध्यतिशयसिद्धिरूपाभिरौषधीभिर्मिथ्यात्वान्धकारेऽपिवज्रस्वामिमानतुङ्ग-कुमुदचन्द्रादिवत् जैनशासनप्रभावनारूपप्रकाशकारकः ॥२९॥
जहा से सयंभुरमणे, उदही अक्खओदए । नाणारयणपडिपुन्ने, एवं हवइ बहुस्सुए ॥ ३० ॥