________________
[१८१
एकादशं बहुश्रुतपूजाऽऽख्यमध्ययनम् ११] कथम्भूतो बहुश्रुतशक्रः? देवताधिपतिः, देवेषु सर्वसाधुषु अधिपतिरधिकः, सर्वसाधूनधिकं यथास्यात्तथा पाति-रक्षतीति देवाधिपतिः ।
___ 'रिसी हि देवा य समं विवित्ता' इत्युक्तेः ।
देवा अधिकं पान्ति-रक्षन्ति सेवां कुर्वन्त्युपद्रवेभ्यो रक्षन्ति हरिकेशबलसाधुवत् वैयावृत्यं कुर्वन्तीति देवाधिपतिः, देवैरपि पूज्यते इत्यर्थः ॥ २३ ॥
जहा से तिमिरविद्धंसे, उत्तिटुंते दिवायरे ।
जलंते इव तेएणं, एवं हवइ बहुस्सुए ॥ २४ ॥ यथा स इति प्रसिद्ध उत्तिष्ठन्-उद्गच्छन् दिवाकरः । सूर्यस्तेजसा ज्वलन् ज्वालाभिरु त्सर्पन्निव विराजते, तथा बहुश्रुतोऽपि राजते । कथम्भूतः सूर्यः ? तिमिरमन्धकारं विध्वंसत इत्येवं शीलस्तिमिरविध्वंसी, अथवा तिमिरस्य विध्वंसो यस्मात् स तिमिरविध्वंसः । अथ बहुश्रुत एव दिवाकरः कीदृग्स्यात् ? कथम्भूतो बहुश्रुतसूर्यः ? तिमिरं मिथ्यात्वान्धकारं विध्वंसयतीति तिमिरविध्वंसः । किं कुर्वन् ? उत्तिष्ठन् क्रियानुष्ठानादौ अप्रमादीभवन् । पुनः कीदृशो बहुश्रुतदिवाकरः ? किं कुर्वन्निव ? तेजसा द्वादशविधतपस्तेजसा माहात्म्येन वा ज्वलन् देदीप्यमानः, परवादिभिर्दष्टुमप्यशक्य इत्यर्थः ॥२४॥
जहा से उडुवई चंदे, नक्खत्तपरिवारिए ।
पडिपुन्ने पुण्णमासीए, एवं हवइ बहुस्सुए ॥२५॥ यथा पूर्णमास्यां राकायां उडुपतिश्चन्दो भवति, जनालादको भवति, चन्दति आह्लादयतीति चन्द्रः, अन्वर्थनामा भवति । तथा बहुश्रुतोऽपि पूर्णमास्यां सम्यक्त्वप्राप्तो प्रतिपूर्णः, उडुपतिरिव चन्द्रो भवति, भव्यजनादको भवति । कीदृश उडुपतिः? नक्षत्रैर्ग्रहतारकादिभिः परिवृतः, परिवारो जातोऽस्येति परिवारित इति वा । पुनः कीदृश उडुपतिः ? प्रतिपूर्णः षोडशकलाभिर्युक्तः पूर्णो मासः-संसारो यस्याः सा पूर्णमासी, सम्यक्त्वलब्धिरूपायां पूर्णमास्यां बहुश्रुतरूप उडुपतिर्भव्यजनाह्लादको भवतीति भावः । पुनः कीदृशो बहुश्रुतोडुपतिः ? साधुभिर्नक्षत्रैरिव परिवारितः सहितः, पुनः कीदृशो बहुश्रुतोडुपतिः ? प्रतिपूर्णः सर्वधर्मकलाभिः सम्पूर्ण इत्यर्थः ॥ २५ ॥
जहा से सामाइयाणं, कुट्ठागारे सुरक्खिए । . .. नाणाधनपडिपुण्णे, एवं हवइ बहुस्सुए ॥ २६ ॥ __यथा स इति प्रसिद्धः सामाजिकानां-महागृहस्थानां कोष्ठागारो विराजते, तथा बहुश्रुतोऽपि विराजते । समाजो-जनसमूहस्तमहंतीति सामाजिकाः, तेषां सामाजिकानांकौटुम्बिकानाम् । कथम्भूतः कोष्ठागार: ? सुरक्षितः, सुतरामतिशयेन चौरमूषकादिभ्य