SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १८० ] [ उत्तराध्ययनसूत्रे वासुदेवो हि स्वशरीरेण युद्धं कृत्वा शत्रून् जयतीत्यर्थः । एवं बहुश्रुतोऽपि वासुदेववत् । कीदृशो बहुश्रुतः ? शङ्खचक्रगदातुल्यानि रत्नत्रयाणि ज्ञान-दर्शनचारित्ररूपाणि धरतीति शङ्खचक्रगदाधरः । पुनः कीदृशो बहुश्रुतः ? योधः - अन्तरङ्गशत्रुघातकः । अत्र बहुश्रुतस्य वासुदेवोपमानम् ॥ २१ ॥ जहा से चाउरंते, चक्कवट्टी महिड्डिए । चउद्दसरयणाहिवई, एवं हवइ बहुस्सुए ॥ २२ ॥ यथा स इति प्रसिद्धश्चक्रवर्ती विराजते इत्यध्याहारः, तथा बहुश्रुतोऽपि विराजते । कीदृशश्चक्रवर्ती ? चातुरन्तः चतुर्भिर्हय - गज-रथ- पदातिभिः सेनाङ्गैरन्तोऽरीणां विनाशो यस्य स चतुरन्तः, चतुरन्त एव चातुरन्तः, आसमुद्रं आहिमाचलं विविधविद्याधरवृन्दगीतकीर्तितया एकछत्रं षट्खण्डराज्यपालकश्चातुरन्तः । पुनः कीदृशश्चक्रवर्ती ? महर्द्धिक, महती ऋद्धिर्यस्य स महर्द्धिकः, चतुःषष्टिसहस्रान्तः पुरनारीणां शय्यासु वैक्रियशक्ति विधाय रममाणः, वैक्रियादिऋद्धिसहित इत्यर्थः, दिव्यानुकारिलक्ष्मीयुक्तो वा । पुनः कीदृशश्चक्रवर्ती ? चतुर्दशरत्नाधिपतिः । चतुर्दशरत्नान्यमूनि सेनापति १, गृहपति २, पुरोहित ३, गज ४, हय ५, सूत्रधार ६, स्त्री ७, चक्र ८, छत्र ९, चर्म १०, मणि ११, काकिनी १२, खड्ग १३, दण्ड १४, एतेषां रत्नानां स्वामी । एवं बहुश्रुतोऽपि । कीदृशो बहुश्रुतः ? चतुर्भिदन - शील- तपो - भावलक्षणैर्धर्मैरन्तश्चतसृणां गतीनां यस्य स चतुरन्तः, चतुरन्त एव चातुरन्तः । चतुर्दशरत्नाधिपतिश्चतुर्दशपूर्वरूपाणि रत्नानि तेषामधिप इत्यर्थः । पुनः कीदृशो बहुश्रुतः ? महर्द्धिकः, महत्य ऋद्धय आमषैषधिवप्रौषधिखेलौषध्यादयो यस्य स महर्द्धिको लब्ध्यृद्धिसहित इत्यर्थः । अथवा महती ऋद्धिर्ज्ञानसंपत्तिर्यस्य स महर्द्धिकः ॥ २२ ॥ जहा से सहस्सक्खे, वज्जपाणी पुरंदरे । सक्के देवाहिवई, एवं हवइ बहुस्सुए ॥ २३ ॥ यथा स इति प्रसिद्धः शक्र-इन्द्रो विराजते, तथा बहुश्रुतोऽपि विराजते । कीदृशः शक्रः ? सहस्राक्षः सहस्रमक्षीणि यस्य स सहस्राक्षः सहस्रनेत्रः । पुनः कीदृश: ? वज्रपाणिर्वज्रशस्त्रहस्तः । पुनः कीदृश: ? पुरन्दरः, पुराणि दैत्यनगराणि दारयति - विध्वंसयतीति पुरन्दरः, दैत्यनगरविध्वंसकः । पुनः कीदृश: ? देवाधिपतिः, देवेषु अधिपतिर्देवाधिपतिः, देवेषु अधिककान्तिधारी । अथ कीदृशो बहुश्रुतशक्रः ? सहस्रमक्षीणि श्रुतज्ञानानि यस्य स सहस्त्राक्षः सहस्रसङ्ख्यैरक्षिभिर्नेत्रैरिव श्रुतज्ञानभेदैः पश्यतीत्यर्थः । पुनः कीदृशो बहुश्रुतशक्रः ? वज्रपाणिः, वज्रं वज्राकारं पाणौ यस्य स वज्रपाणिः, विद्यावतः पूज्यस्य हस्तमध्ये वज्रलक्षणस्य सम्भवात् । पुनः कथम्भूतो बहुश्रुतशक्रः ? पुरन्दरः, पुरं- स्वतनुं दारयति - तपसा दुर्बलीकरोतीति पुरन्दरः, तपस्वी इत्यर्थः । पुनः
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy