________________
एकादशं बहुश्रुतपूजाऽऽख्यमध्ययनम् ११]
[१७९ एवं बहुश्रुतोऽपि उत्पातिक्यादिचतसृभिर्बुद्धिभिर्विद्याभिर्वा सहितो वर्धमानशास्त्रार्थबलः केनापि प्रतिवादिना जेतुं न शक्यते ॥१८॥
जहा से तिक्खसिंगे, जायखंधे विरायई ।
वसहे जूहाहिवई, एवं हवइ बहुस्सुए ॥ १९ ॥ यथा स इति वक्ष्यमाणो वृषभो यूथस्य-गोवर्गस्य अधिपो विराजते।एवं बहुश्रुतोऽपि विशेषेण राजते।कथम्भूतो वृषभः? तीक्ष्णश्रृङ्गः।पुनः कथम्भूतः? जातस्कन्ध उत्पन्नधूर्धरणभागः, एतादृशो बलीवई इव बहुश्रुतोऽपि शोभते । कथम्भूतो बहुश्रुतः ? परपक्षभेदकत्वेन तीक्ष्णे स्वमत-परमतज्ञानरूपे शास्त्रे एव श्रृङ्गे यस्य स तीक्ष्णश्रृङ्गः। पुनः कथम्भूतो बहुश्रुतः ? जात-उत्पन्नो गणस्य कार्यरूपधुरं प्रति धौरेयिकत्वेन पुष्टः स्कन्धो यस्य स जातस्कन्धः । पुनः कीदृशो बहुश्रुतः? यूथाधिपतिः, यूथस्य चतुर्विधसङ्गस्य अधिपति!थाधिपतिः। एवं बहुश्रुतोऽपि यूथाधिपवृषभवदाचार्यादिपदवी प्राप्तः सन् विराजते ॥१९॥
जहा से तिक्खदाढे, उदग्गे दुप्पहंसए ।
सीहे मियाण पवरे, एवं हवइ बहुस्सुए ॥ २० ॥ यथा सिंहो मृगाणामरण्यजीवानां मध्ये प्रवर:-प्रधानः स्यात् । एवं बहुश्रुतोऽपि सिंह इव अन्यतीर्थीयमृगाणां मध्ये प्रकर्षेण श्रेष्ठः स्यात् । कथम्भूतः सिंहः ? तीक्ष्णदंष्ट्रः। पुनः कीदृशः सिंहः ? उदग-उत्कटः । पुनः कथम्भूतः ? दुष्प्रहंस्यको-दुरभिभवः, अन्यैर्जीवैर्दुधृष्यो-दुःसह इत्यर्थः । बहुश्रुतोऽपि सिंह इव । कथम्भूतो बहुश्रुतः ? तीक्ष्णदंष्ट्रः, तीक्ष्णाः सप्तनयविद्यारूपा दंष्ट्रा यस्य स तीक्ष्णदंष्ट्रः, अत एव उत्कटो दुर्जयः । पुनः कथम्भूतो बहुश्रुतः ? दुष्प्रहंस्यकः, अन्यतीर्थैर्दुधृष्यः, कलितुमशक्य इत्यर्थः ॥ २० ॥
जहा से वासुदेवे, संखचक्कगयाधरे ।
अप्पडिहयबले जोहे, एवं हवइ बहुस्सुए ॥२१॥ यथा स प्रसिद्धो वासुदेवोऽप्रतिहतबलः स्यात्, अप्रतिहतं केनाप्यनिवारितं बलं यस्य सोऽप्रतिहतबलः । एवं बहुश्रुतोऽपि केनापि परमतिना अनिवारितबल: स्यात् । कीदृशो वासुदेवः ? शङ्खचक्रगदाधरः, वासुदेवस्य हि रत्नसप्तकं स्यात्, यतः
"चक्कं धणुहं खग्गो, मणी गया होइ तह य वणमाला।
संखो सत्त इमाइं, रयणाई वासुदेवस्स ॥ १ ॥" [ब सं.-२४८ ] - अत्र त्रयाणामेव ग्रहणं बहुश्रुतेन साम्याथ, सप्तानां मध्ये त्रयाणामेव प्राधान्यमप्यस्ति । पुनः कीदृशो वासुदेवः ? योधः, युध्यति शत्रून् प्रति संहरतीति योधः, यदुक्तम्
"युद्धसूरा वासुदेवा, खमासूरा अरिहंता । तपसूरा अणगारा, भोगसूरा चक्कवट्टी य ॥ १॥"