________________
१७८]
[उत्तराध्ययनसूत्रे जहा से कंबोयाणं, आइन्नो कथए सिया।
आसे जवेण पवरे, एवं हवइ बहुस्सुए ॥ १६ ॥ बहुश्रुतः साधुरेवं भवति, एतादृशो एवं विराजते । एवमिति कथं ? यथा कम्बोजानां काम्बोजदेशोद्भवानामश्वानां मध्ये य आकीर्णः-शीलादिगुणैर्व्याप्तो विशुद्धमाता-पितृयोनिजत्वेन सम्यगाचारः, स्वामिभक्तादिशालिहोत्रशास्त्रोक्तगुणप्रयुक्तः । कीदृश आकीर्णः ? कन्थकः, लघुपाषाणभृतकुतपनिपतनसञ्जातशब्दान्न त्रस्यति अथवा शस्त्रादीनां प्रहाराद्रणे निर्भीकः कन्थक उच्यते । पुनः कीदृशः सः ? जवेन-वेगेन सम्यग्गत्या, प्रवरः प्रकर्षेण वर:-श्रेष्ठः । यथा हि सर्वेषु काम्बोजदेशोद्भवेषु अश्वेष्वाकीर्णः कन्थकोऽश्वो गमनेन अत्यन्तं प्रधानो भवेत्, राजादीनां वल्लभो भवेत् । तथा बहुश्रुतोऽपि सर्वेषां ज्ञानक्रियावतां मुनीनां मध्ये परवादिनां वादैरत्रस्तः सम्यगाचारविहारेण विराजमानः स्यात्, सर्वेषां वल्लभो भवेदित्यर्थः ॥ १६ ॥
जहाइन्नसमारूढे, सूरे दढपरक्कमे ।
उभओ नंदिघोसेणं, एवं हवइ बहुस्सुए ॥ १७ ॥ पुनर्यथा शूर आइन्नसमारूढः' आकीर्णो जातिविशुद्धघोटकस्तत्र समारूढ आकीर्णसमारूढः दृढपराक्रमः-स्थिरपराक्रमः स्थिरोत्साहः, केनाप्यन्यसुभटेनन अभिभूयते इत्यध्याहारः । न च तं प्रत्याश्रितोऽपि भृत्यादिवर्गः केनाप्यभिभूयते । कथम्भूतः स शूरः ? उभयतो वाम-दक्षिणतः,अथवा पृष्टतोऽग्रतोवानान्दीघोषेणोपलक्षितः,नान्दी-द्वादशतूर्याणि, तेषां द्वादशतूर्याणां घोषो नान्दीघोषस्तेनोपलक्षितः । अथवा त्वं चिरंजीया इत्यादिबन्दिजनोच्चारिताशीर्वचनम्, तस्य घोषः- शब्दस्तेनोपलक्षितः। यथैतादृशः शूरः सर्वत्र विजयी स्यात् ।एवं बहुश्रुतोऽपि साधुर्जिनप्रवचनाश्वारूढः, दृढपराक्रमो दृप्यत्परवादिदर्शनादत्रस्तः, परवादिजये समर्थः, उभयतो दिन-रजन्यो: स्वाध्यायरूपेण नान्दीघोषेणोपलक्षितः ।अथवा उभयतः पार्श्वद्वयोः शिष्याध्ययनरूपेण नान्दीघोषेणोपलक्षितः ।अथवा प्रवचनोद्दीपकत्वेन स्वतीयश्चिरं जीवत्वसावित्याद्याशीर्वचनरूपेण नान्दीघोषेणोपलक्षितः । परतीचैं: पराभवितुमशक्यो भवेत्, तदाश्रितोऽपि सङ्घः केनापि पराभवितुं न शक्यते ॥१७॥
जहा करेणुपरिकिन्ने, कुंजरे सहिहायणे ।
बलवंते अप्पडिहए, एवं हवइ बहुस्सुए ॥ १८ ॥ यथा षष्टिहायनः षाष्टिवार्षिकः कुञ्जरो बलवानप्रतिहतः स्यात् । प्रतिद्वन्द्विगजैः प्रतिहन्तुं शक्यो न स्यात्, तथा बहुश्रुतोऽपि।षष्टिवर्षाणि यावद्गजो वर्धमानबलः स्यात् । कथम्भूतो गजः? करेणुभिर्हस्तिनीभिः परिकीर्णः- परिवृतः, षष्टिहायनतया कुञ्जरः स्थिरमतिश्च स्यात् ।