________________
एकादशं बहुश्रुतपूजाऽऽख्यमध्ययनम् ११]
[१७७ पुनर्योऽभिजातिगो भवति, अभिजाति-कुलीनतां गच्छति-प्राप्नोतीति अभिजातिगः, गुरुकुलवाससेवक इत्यर्थः १३ । पुनर्यो हीमान्, ही विद्यते यस्य स हीमान्, कलुषाध्यवसायाऽकार्यकरणे त्रपायुक्त इत्यर्थः १४ । प्रतिसंलीनः, गुरुसकाशेऽन्यत्र वा यतस्ततो न चेष्टते, चेष्टां न करोति स प्रतिसंलीन उच्यते १५ । य एतादृशो भवति स विनीत उच्यते ।
अथ पूर्वोक्तपञ्चदशस्थानानां सुविनीतत्वकारणानां नामान्याह-गुरोरासनाद् दव्यभावतो नीचासनोपसेवनम् १, अचपलत्वम् २, अमायित्वम् ३, अकुतूहलत्वम् ४, कस्यापि अनिर्भर्त्सनम् ५, अदीर्घरोषत्वम् ६, मित्रस्योपकारकरणम् ७, विद्यामदस्य अकरणम् ८, आचार्यादीनां मर्मस्यानुद्घाटनम् ९, मित्राय क्रोधस्य अनुत्पादनम् १०, अपराधे सत्यपि मित्रस्य अमित्रस्य वा परपृष्टे दूषणस्य अभाषणम् ११, कलहडमरवर्जनम् १२, गुरुकुलवाससेवनम् १३, लज्जावत्त्वम् १४, प्रतिसंलीनत्वम् १५, एतानि पञ्चदश स्थानानि सुविनीतस्य ज्ञेयानि ॥१३॥
अथ सुविनीतः कीहक् स्यादित्याह___वसे गुरुकुले निच्चं, जोगवं उवहाणवं । _ पियंकरे पियवाई, से सिक्खं लडुमरिहई ॥१४॥
समुनिः शिक्षा लब्धुमर्हति-शिक्षायै योग्यो भवति । स इति कः ? यो गुरुकुले नित्यं वसेत्, गुरोः पूज्यस्य विद्या-दीक्षादायकस्य वा, कुले गच्छे संघाटके वा नित्यं यावज्जीवं तिष्ठेत्।पुनर्यो मुनिर्योगवान्, योगो-धर्मव्यापारः, स विद्यते यस्य सयोगवान्, अथवा योगोऽष्टाङ्गलक्षणस्तद्वानित्यर्थः।पुनर्यःसाधुरुपधानवान्, उपधानमङ्गोपाङ्गादीनां सिद्धान्तानांपठनाराधनार्थमाचाम्लोपवासनिर्विकृत्यादिलक्षणंतपोविशेषः। स विद्यते यस्य स उपधानवान्, सिद्धान्ताराधनतपोयुक्त इत्यर्थः । पुनर्यः साधुः प्रियङ्करः, आचार्यादीनां हितकारकः।पुनर्यः प्रियवादी, प्रियो वादोऽस्यास्तीति प्रियवादी-प्रियभाषी । एतैर्लक्षणैर्युक्तो । मुनिः शिक्षा प्राप्तुं योग्यो भवति ॥१४॥ अथ बहुश्रुतप्रतिपत्तिरूपमाचारं स्तवद्वारेणाह
जहा - संखंमि पयं निहितं, दुहाओ वि विरायइ।
एवं बहुस्सुए भिक्खू, धम्मो कित्ती तहा सुयं ॥१५॥ यथाशके निहितं पयो-दुग्धं द्विद्यापि विराजते, उभयप्रकारेण शोभते, पयो धवलम्, अथ च पुनः शोऽपिधवलेऽत्यन्तधवलत्वेन वर्णो विराजते।एवममुना प्रकारेणशङ्खमध्यदुग्धदृष्टान्तेन बहुश्रुते भिक्षौ धर्मो-यतिधर्मस्तथा कीर्तिः श्रुतंच,एतत्पदार्थत्रयं स्वतएव भासते । बहु-प्रचुरं श्रुतं-श्रुतज्ञानं यस्य स बहुश्रुतः । तथा एवं गुरुकुलवासिनि साधौ बहुश्रुताश्रयविशेषादत्यन्तं शोभते । बहुश्रुते स्थितो धर्मः कीर्तिर्यशश्च मालिन्यं न प्राप्नोति । अत्र कीर्तिर्गुणश्लाघा, यशः सर्वत्र प्रसिद्धत्वम्, इत्यनयोः कीर्तियशसोर्लक्षणं ज्ञेयम् ॥१५॥ ૨૩