________________
१७४]
[उत्तराध्ययनसूत्रे अथाग्रेतनगाथायां बहुश्रुतहेतूनाह
अह अट्टहिं ठाणेहिं, सिक्खासीलत्ति वुच्चइ। ............
अहस्सिरे सया दंते, न य मम्ममुदाहरे ॥ ४ ॥ अथानन्तरमेतैरष्टभिः स्थानैरष्टभिः प्रकारैः शिक्षाशील इत्युच्यते । शिक्षा ग्रहणाऽऽसेवनारूपशास्त्रं शीलं ते धारयतीति शिक्षाशीलः । तानि अष्टप्रकाराणीमानि-'अहस्सिरे' अहसनशीलः, पुनः सदा दान्तो जितेन्द्रियः, पुनर्यो मर्म न उदाहरेत । य एतादृशो भवति, स गुरूणां शिक्षायोग्यो भवति । गुणिनो ग्रहणाद् गुणानां ग्रहणं कर्तव्यम् ॥ ४ ॥
नासीले न विसीले, न सिया अइलोलुए ।
अकोहणे सच्चरए, सिक्खासीलेत्ति वुच्चई ॥५॥ पुनरेतादृशः शिक्षाशील उच्यते । एतादृशः कः ? यः सर्वथा अशीलो न स्यात्, न विद्यते शीलं यस्य सःअशीलः-शीलरहित इत्यर्थः।पुनर्यो विशीलो न स्यात्, विरुद्धशीलो विशीलः,अतीचारैः कलुषितव्रतो न स्यात्।यः पुनरतिलोलुपोऽतिरसास्वादलम्पटो नस्यात्, अथवा अतिलोभसहितो न स्यात् । पुनर्योऽक्रोधनः क्रोधेन रहितः स्यात्, पुनर्यः सत्यरतिः स्यात्, स शिक्षाशीलः स्यादित्यर्थः । हास्यवर्जनम् १, दान्तत्वम् २, परमर्मानुद्घाटनम् ३, अशीलवर्जनम् ४, विशीलवर्जनम् ५, अतिलोलुपत्वनिषेधनं ६, क्रोधस्याकरणम् ७, सत्यभाषणम् ८, च एतैरष्टभिः प्रकारैर्बहुश्रुतत्वं स्यादिति भावः ॥५॥ अथ अबहुश्रुतत्व-बहुश्रुतत्वहेत्वोरविनीत-विनीतयोः स्वरूपमाह
अह चउदसहि ठाणेहिं, वट्टमाणे उ संजए ।
अविणीए वुच्चई सो उ, निव्वाणं च न गच्छइ ॥६॥ अथ चतुर्दशसु स्थानेषु वर्तमानः संयतोऽविनीत उच्यते । स चाविनीतो निर्वाणं मोक्षं च न गच्छति-न प्राप्नोति । अथवा निर्वाणं-निर्वाणकारणं ज्ञान-दर्शन-चारित्रलक्षणं रत्नत्रयं सुखकारणं न प्राप्नोति । अत्र 'चतुर्दशसु स्थानेषु' इति सप्तम्यर्थे प्राकृतत्वातृतीयाबहुवचनम् ॥६॥ अथ तानि चतुर्दशस्थानानि तिसृभिर्गाथाभिराह -
अभिक्खणं कोही हवइ, पबंधं च पकुव्वई । मित्तिज्जमाणो वमइ, सुयं लभ्रूण मज्जइ ॥७॥ अवि पावपरिक्खेवि, अवि मित्तेसु कुप्पई । सुप्पियस्सावि मित्तस्स, रहे भासई पावगं ॥ ८ ॥