________________
॥अथैकादशं बहुश्रुतपूजाऽऽख्यमध्ययनं प्रारभ्यते ॥
अथ दशमेऽध्ययने प्रमादपरिहारार्थमुपदेशो दत्तः । स च विवेकिन एव स्यात् विवेकी च बहुश्रुतो भवेत् । अत एकादशमध्ययनं बहुश्रुताख्यं बहुश्रुतवर्णनमुच्यते ।
संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो ।
आयारं पाउकरिस्सामि, आणुपुव्वि सुणेह मे ॥१॥ हे जम्बु ! संयोगाद् विप्रमुक्तस्य अनगारस्य भिक्षोराचारं साधुयोग्यक्रियां बहुश्रुतपूजारूपं-बहुश्रुतस्वरूपज्ञानं आनुपूर्व्या-अनुक्रमेण प्रादुष्करिष्यामि-प्रकटीकरिष्यामि, 'मे' मम कथयिष्यतस्त्वं श्रृणु अथवा साधोराचारम् आकारम् बहुश्रुतस्य आकारम्, बहुश्रुतः कीदृग् स्यात् ? तत्प्रकटीकरिष्यामि ॥१॥ प्रथमं तत्परिज्ञानार्थ अबहुश्रुतस्य लक्षणमाह
जे यावि होइ निव्विज्जे, थद्धे लुद्धे अणिग्गहे।
अभिक्खणं उल्लवइ, अविणीए अबहुस्सुए ॥२॥ यश्च यो मनुष्यो निर्विद्यो भवति । अपिशब्दात् यः सविद्यो वा भवति । स चेत् स्तब्धोऽहङ्कारी भवति, पुनर्लुब्धो भवति, रसादिषु लोलुपो भवति । पुनर्योऽनिग्रह इन्द्रियदमरहितो भवति, पुनर्योऽभीक्ष्णं वारंवारमुल्लपति । उत्प्राबल्येन यथातथा अविचारितं लपति, वाचालो भवति । स पुरुषोऽविनीतो विनयधर्मरहितोऽबहुश्रुत उच्यते । सविद्योऽपि अबहुश्रुतः स्यात् चेत् सविद्यत्वस्य फलं न प्राप्नुयात् तद्विपरीतो बहुश्रुतः स्यात् ॥२॥ अबहुश्रुतस्य कारणमाह
अह पंचहिं ठाणेहि, जेहिं सिक्खा न लब्भइ ।
थंभा कोहा पमाएणं, रोगेणाऽलस्सएण य ॥३॥ अथ श्रोतुः पुरुषस्य उत्कर्णताकरणे यैः पञ्चभिः स्थानैः- पञ्चभिः प्रकारैः शिक्षाग्रहणाऽऽसेवनारूपा न लभ्यते-न प्राप्यते । तानि पञ्च स्थानानि श्रृणु इत्यध्याहारः । स्तम्भः, क्रोधः, प्रमादः, रोगः, आलस्यं च स्तम्भात्-अहङ्कारात् शिक्षा योग्यो न भवति । तथा क्रोधादपि शिक्षा योग्यो न भवति । तथा पुनः प्रमादेन मद-विषय-कषाय-निद्राविकथारूपेण उपदेशयोग्यो न स्यात् । तथा रोगेण वात-पित्त-श्लेष्म-कुष्ठ-शूलादिव्याधिना शिक्षाग्रहणार्हो न भवति । तथा आलस्येन-अनुद्यमेन, च शब्देन एतैः सर्वप्रकारैः । अथवा एतेषां स्थानानां मध्ये एकेनापि स्थानेन शिक्षा न प्राप्यते गुरूपदिष्टशास्त्रार्थाभ्यासं कर्तुं न शक्नोति । शिक्षालाभस्याभावात् अबहुश्रुतत्वं स्यात् ॥३॥