________________
१७२]
[उत्तराध्ययनसूत्रे समे मार्गे यौवनोत्तारे कुत्रचित्परीषहादिना स्खलन् महाव्रतभारंत्यजन्नबलो भवन् पश्चादन्त्ये वयस्यागतः संयमधनरहितो भूत्वा मा पश्चादनुतप्ये:-मा पश्चात्तापपीडितो भूया इति विचिन्त्य समयमात्रमपि मा प्रमादीः ॥ ३३ ॥
तीण्णो हु सि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ।
अभितुर पारं गमित्तए, समयं गोयम मा पमायए ॥ ३४ ॥ हेगौतम! त्वमर्णवं भवसमुद्रं तीर्ण एवासि,उल्लचितप्रायोऽसि।किं पुनस्तीरमागतः सन् तिष्ठसि ? औदासीन्यं भजसि ? हे गौतम ! भवार्णवस्य पारं गन्तुमभित्वरस्व-पारगमने उत्तालो भवेत्यर्थः। तीरमत्र मुक्तिपदमुच्यते, तस्मात्समयमात्रमपि मा प्रमादीः ॥३४॥ . अकलेवरसेणिमुस्सिया, सिद्धि गोयम लोयं गच्छसि।
खेमं च सिवं अणुत्तरं, समयं गोयम मा पमायए ॥३५॥ हेगौतम! त्वं सिद्धि-सिद्धिनामकं लोकं-स्थानं गमिष्यसि-प्राप्स्यसि।किं कृत्वा ? अकलेवरश्रेणिमुत्सृज्य, न विद्यते कलेवरं शरीरं येषां तेऽकलेवराः सिद्धास्तेषां श्रेणि:उत्तरोत्तरप्रशस्तमनः-परिणतिपद्धतिः क्षपक श्रेणिस्तामकलेवरश्रेणिमुत्सृज्य, उत्तरोत्तरसंयमस्थानप्राप्त्योन्नतामिव कृत्वा, कथम्भूतं सिद्धि लोकं ? क्षेम-परचक्रायुपद्रवरहितम् । पुनः कीदृशं ? शिवं-सकलदुरितोपशमम्, पुनः कीदृशं? अनुत्तरं सर्वोत्कृष्टमित्यर्थः॥३५॥
बुद्धे परिनिव्वुडे चरे, गामगए नगरे च संजए ।
संतिमग्गं च बूहए, समयं गोयम मा पमायए ॥ ३६ ॥ । हे गौतम ! परिनिर्वृतः-शान्तरससहितः सन् चर-संयम सेवस्व । कीदृशः ? ग्रामे गतो ग्रामगतः, च पुनर्नगरे गतः, चशब्दावने वा स्थितः।पुनः कीदृशः ? संयतः सम्यग्यत्तं कुर्वाणः, पुनः कीदृशः ? बुद्धो-ज्ञाततत्वः, च पुन: गौतम ! शान्तिमार्ग त्वं बृहयेः । भव्यजनानामुपदेशद्वारेण वृद्धि प्रापयेः । अत्र कार्ये समयमात्रमपि मा प्रमादीः ॥३६ ॥
बुद्धस्स निसम्म भासियं, सुकहियमट्ठपओवसोहियं । रागं दोसं च छिंदिया, सिद्धिं गए गोयमे ॥३७॥त्ति बेमि ॥
गौतमः सिद्धि-मुक्तिस्थानं प्राप्तः, किं कृत्वा ? बुद्धस्य श्रीमहावीरदेवस्य सुष्ठ शोभनं भाषितं-सुभाषितं सम्यगुपदेशं निशम्य श्रोत्रद्वारेण हृद्यवधार्य, च पुना रागद्वेषं च छित्त्वा, कीदृशं सुभाषितं ? सुकथितम्, सुतरामतिशयेन-शोभनप्रकारेणोपमायोगेन कथितम् वाक्यप्रबन्धेन रचितमित्यर्थः ।सुधर्मा स्वामी जम्बूस्वामिनः पुरआह। यथा श्री महावीरदेवेन गौतमादिशिष्याने कथितं तथाहं तवाग्रे ब्रवीमीत्यर्थः ॥ ३७॥
इति द्रुमपत्राख्यं दशममध्ययनं सम्पूर्णम् ॥ १० ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यश्रीलक्ष्मीवल्लभगणिविरचितायां दशमाध्ययनस्यार्थः सम्पूर्णः॥