SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ दशमं दुमपत्रकाख्यमध्ययनम् १०] [१७१ बहुमतः, बहुभिर्बहूनां वा मतो बहुमतः, अथवा बहवो मता-नया यस्मिन् स बहुमतः, नैगम-संग्रह-व्यवहार्जुसूत्र-शब्द-समभिरूडैवंभूतादिसप्तनयात्मकः ।ज्ञान-दर्शनचारित्राणि मोक्षमार्गः, अपरमते ह्येकान्तवादित्वम्, तस्मादयं जैनमतस्तु बहुमतः । एवंविधोऽयं मुक्तिमार्गोऽतीन्द्रियार्थदर्शिनं जिनं केवलिनं विना न स्यात् । तस्मादस्य बहुमतस्य मुक्तिमार्गस्य, एवं भव्या ज्ञास्यन्ति-चेदयं मुक्तिमार्गोऽस्ति, जिनो नास्ति, तदास्य मार्गस्य कश्चिद्वक्ताप्यासीत्, न च स कश्चिद्वक्तापि सामान्यः, किन्त्वस्य धर्मस्योपदेष्टा कश्चिदाप्तो जिन एव भवितुमर्हति । इति मद्विरहेऽप्यप्रमादिनो भविष्यन्ति । सम्प्रति मयि केवलिनि सत्यस्मिनैयायिके पथि सर्वथा प्रमादस्त्याज्य एवेति भावः । निश्चित आयो-मुक्तिलक्षणो लाभो यस्मिन् स नैयायिको ज्ञान-दर्शन-चारित्ररूपरत्नत्रयात्मक इत्यर्थः। अथ पुनरप्यस्या गाथाया अयमर्थोऽप्यस्ति-हे गौतम ! अद्येदानीं भवान् जिनः केवली न दृश्यते, दृश्यत इति क्रियाबलाद्, भवानिति पदमनुक्तमपि गृह्यते । परं बहुभिर्मतो-मान्यो ज्ञातो वा बहुमतः, अर्थात्प्रसिद्धो मार्ग इव जिनत्वभवनमार्गो देशितो मया तवोपदिष्टः ।समार्गस्त्वया विलोक्यत एव, तस्मात् सम्प्रतीदानीं मयि-जिने सति नैयायिके मार्गे-मदुक्ते मार्गे समयमात्रमपि मा प्रमादीः । मयि विद्यमाने सति मयि विषये मोहाद्भवान् जिनो न वर्तसे, पश्चात्त्वं जिनो भावी, तस्मादिदानी मद्वचने प्रामाण्यं विधेयमित्यर्थः ॥ ३१ ॥ अवसोहिय कंटयापहं, ओइन्नो सि पहं महालयं । गच्छसि मग्गं विसोहिया, समयं गोयम मा पमायए ॥३२॥ हे गौतम ! त्वं महालयं पन्थानमुत्तीर्णोऽसि-प्राप्तोऽसि । महान् सम्यग्ज्ञानदर्शनचारित्रलक्षण आलय-आश्रयो यस्मिन् स महालयस्तं महालयम्, एतादृशं पन्थानं राजमार्ग प्राप्तोऽसि । किं कृत्वा ? कण्टकपथमवशोध्य, कण्टकानां बौद्ध-चरक-साङ्ख्यादीनां पन्थः कण्टकपन्थः, आकारः प्राकृतिकः । अथवा कण्टैः कुतीथिकैराकीर्णो-व्याप्तः कुत्सितपन्थाः कण्टकापथस्तं परिहत्य सम्यग्मुक्तिमार्ग राजमार्गमिव प्राप्तोऽसि । हे गौतम ! यदि विशेषेण शोधिते निरवद्ये मार्गे गच्छसि तदा समयमात्रमपि प्रमादं मा कुर्याः ॥३२॥ अबले जह भारवाहए, मा मग्गे विसमेऽवगाहिया। पच्छा पच्छाणुतावए, समयं गोयम मा पमायए ॥ ३३ ॥ -- हे गौतम ! यथा कश्चिद्भारवाहको विषमं मार्गमवगाह्य विषमे मार्गे स्वर्णादिभारमुत्पाट्य समे मार्गेऽबलः स्यात्, स च भारवाहकः पश्चाद् गृहमागतः पश्चादनुतप्यतेपश्चात्तापपीडितः स्यात् । कोऽर्थः ? यथा कश्चिद्भारवाहकः शिरसि कतिचिद्दिनानि यावद्विषमे मार्गे स्वर्णादिभारमुद्वहति । तदनन्तरं कुत्रचित् पाषाणादिसङ्कले मार्गे भारेणाक्रान्तोऽहमिति ज्ञात्वा तं भारमुत्सृजति । स च भारवाहकः पश्चाद् गृहमागतः सन् निर्धनत्वेन पश्चादनुतप्यते, पश्चात्तापपीडितः स्यात् । तथा त्वमपि विषमं मागं तारुण्यादिवयोविशेष महाव्रतभारमुद्वाह्य
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy