________________
१७०]
[उत्तराध्ययनसूत्रे वुच्छिंद सिणेहमप्पणो, कुमुयं सारड्यं व पाणियं । से सव्वसिणेहवज्जिए, समयं गोयम मा पमायए ॥२८॥ हे गौतम ! आत्मनः स्नेहं मयि विषये रागं व्युच्छिन्धि-अपनय, स्नेह-बन्धनं त्यजेत्यर्थः । किं किमिव ? कुमुदं-कमलं पानीयमिव, यथा कुमुदं पानीयं त्यक्त्वा पृथक्तिष्ठति, तथा त्वमपि स्नेहं त्यक्त्वा पृथग्भवेत्यर्थः । कीदृशं पानीयं ? शारदम्, शरदि ऋतौ भवं शारदम् । अत्र पानीयस्य शारदमिति विशेषणेन मनोरमत्वं स्नेहस्य दर्शितम्, स्नेहो हि संसारिणो जीवस्य मनोहरो लगति ।से शब्दोऽथशब्दार्थः । अथ त्वं सर्वस्नेहवर्जितः सन् समयमात्रमपि प्रमादं मा कुर्याः ॥ २८ ॥
चिच्चा धणंच भारियं, पव्वइओ हिसि अणगारियं ।
मा वंतं पुणो वि आविए, समयं गोयम पमायए ॥२९॥ हे गौतम ! यदि त्वमनगारितां - साधुत्वं प्रव्रजितोऽसि-प्रकर्षेण प्राप्तोऽसि, किं कृत्वा ? धनं च पुनर्भार्यां त्यक्त्वा, तदा पुनरपि वान्तं - त्यक्तं मा पिब, त्यक्ते वस्तुनि पुनर्ग्रहणादरं मा कुर्याः । एतस्मिन् विषये समयमात्रमपि मा प्रमादीः ॥२९॥
अवउज्झिय मित्तबंधवं, विउलं चेव धणोहसंचयं ।
मा तं बिइयं गवेसए, समयं गोयम मा पमायए ॥३०॥ हे गौतम ! मित्र-बान्धवं 'अवउज्झिय' अपोह्य-त्यक्त्वा, च पुनर्धनौघसञ्चयम्, धनस्यौघः समूहो धनौघस्तस्य सञ्चयो-राशीकरणम्, तदप्यपोह्य-त्यक्त्वा, 'बितीयमिति' द्वितीयवारं पुनरित्यर्थः, तन्मित्र-बान्धव-धनौघसञ्चयादि मा गवेषयेत्, तस्मात्समयमात्रमपि मा प्रमादीः ॥३०॥
न हु जिणे अज्ज दिस्सई, बहुमए दिस्सई मग्गदेसिए।
संपइ नेयाउए पहे, समयं गोयम मा पमायए ॥ ३१ ॥ पुनरपि गौतमादीन् दृढीकरोति श्रीमहावीर:-हे गौतम ! सम्प्रति-इदानीं मयि विद्यमाने प्रत्यक्षप्रमाणेन गृह्यमाणे सति नैयायिके - मुक्तिरूपे पथि - मार्गविषये मा प्रमादं भवान् कुर्यात्, यद्यपि तवेदानी केवलज्ञानं नास्ति, तथाप्यहं विद्यमानोऽस्मीति साम्प्रतं संशयाभावेन प्रमादस्त्याज्यः । अग्रे तु मद्विरहेऽपि एतादृशा भाविनो-भव्यजीवा न भविष्यन्ति ये इति विचिन्त्य-इत्यनुमानप्रमाणं विधाय नैयायिके मार्गे-साधुधर्मे मयि च स्थिरा भविष्यन्ति, तत्किमनुमानं कृत्वाऽप्रमादिनः स्थिराश्च भविष्यन्ति तदाह___मार्ग इव मुक्तिनगरं प्रति पन्था इव देशित:-कथितो मार्गदेशितः, अयं जीवदयाधर्मो मुक्तिमार्ग इव कथितो दृश्यते । अद्येदानीं जिनो न दृश्यते, कथम्भूतोऽयं मार्गदेशितः ?