SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ दशमं दुमपत्रकाख्यमध्ययनम् १०] [१६९ गाथायाः पूर्वार्धस्यार्थः पूर्ववद् ज्ञेयः, तत्पूर्वसत्कं चक्षुर्बलं हीयते । तद्धानौ च धर्मकरणं दुर्लभं ज्ञात्वा मा प्रमादं कुर्याः ॥ २२ ॥ परिजरइ ते सरीरयं, केसा पंड्या हवंति ते । से घाणबले य हायई, समयं गोयम मा पमायए ॥२३॥ तत्पूर्वसत्कमपि घ्राणबलं-नासबलं हीयते । तस्मानासाबले सति त्वया सुरभिदुरभिगन्धग्रहणेन विषये राग-द्वेषकरणवेलायां प्रमादो न विधेयः ॥ २३ ॥ परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से जिब्भबले य हायई, समयं गोयम मा पमायए ॥२४॥ तत् जिह्वाबलं हीयते । यादृशं तरुणावस्थायां भवेत्तादृशं वृद्धावस्थायां न स्यात् । तस्माज्जिह्वाबले सति 'स्वाध्यायादिकरणे प्रमादं मा कुर्याः ॥२४॥ परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से फासबले य हायई, समयं गोयम मा पमायए ॥२५॥ तत्स्पर्शबलं शरीरबलं हीयते, यादृशं यौवने शरीरबलं भवेत्तादृशं जरायां न स्यात् । तस्माद्धर्मानुष्ठानादौ प्रमादं मा कुर्याः ॥ २५ ॥ परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से सव्वबले य हायई, समयं गोयम मा पमायए ॥ २६ ॥ तत्तरुणावस्थासत्कं सर्वबलं-कर-चरण-दन्तादीनां बलं हीयते । तस्मात्समयमात्रमपि त्वं मा प्रमादीः ॥ २६ ॥ अरईगंडं विसुइया, आयंका विविहा फुसंति ते ।। विवडइ विद्धंसइ ते सरीरयं, समयं गोयम मा पमायए ॥२७॥ हे गौतम ! 'ते' तव विविधा नानाप्रकारा आतङ्का-रोगाः शरीरं स्पर्शन्ति । ते के चातङ्काः ? अरतिश्चतुरशीतिविधवातोद्भूतचित्तोद्वेगो वातप्रकोप इत्यर्थः । गण्डं रुधिरप्रकोपोद्भूतस्फोटकः, विशूचिकाऽजीर्णोद्भूतवमनाध्मातविरेचादिसद्योमृत्युकृतक, इत्यादयो रोगा आतङ्का देहं पीडयन्ति । तै रोगैः पीडिते शरीरे सति धर्माराधनं दुष्करम् । ते शरीरं रोगाभिभूतं सद्विपतति, विशेषेण बलापचयानश्यति । पुनः शरीरं ते तक विध्वस्यते, जीवमुक्तः सद्विशेषेणाधः पतति । अत्र सर्वत्र यद्यपि 'ते' तवेत्युक्तम्, गौतमे च केशपाण्डुरत्वादीन्द्रियाणां हानिश्च न सम्भवति । तथापि तन्निश्रयापरशिष्यादिवर्ग प्रतिबोधार्थमुक्तम्, दोषाय न भवति । तथा च प्रमादो न विधेयः ॥२७॥ १ स्वाध्यायादिधर्मक्रियाया-मु.॥ २२
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy