________________
१६८ ]
[ उत्तराध्ययनसूत्रे
'से' इति स जीवोsहीनपञ्चेन्द्रियत्वमपि चेल्लभेत तदापि 'हु' इति निश्चयेनोत्तमधर्मश्रुतिर्दुर्लभा, जिनधर्मस्य श्रवणं दुष्प्राप्य ( प ) मित्यर्थः । तत्र हेतुमाह-जनो लोकः कुतीर्थिनिषेवकः स्यात्, कुतीर्थिनां मिथ्यात्विनां निषेवकः । कुतीर्थिनो हि सत्कारयशोलाभार्थिनो भवन्ति । ते च प्राणिनां विषयादिसुखसेवनोपदेशेन वल्लभत्वमुत्पाद्य जनान् रञ्जयन्ति । अतस्तेषां सेवा सुकरा, तेषां मुखात्तु धर्मवार्ता कुत इत्यर्थः ॥ १८ ॥
-
लक्षूणवि उत्तमं सुई, सद्दहणा पुणरवि दुल्लहा । मिच्छत्तनिसेवए जणे, समयं गोयम मा पमायए ॥ १९ ॥
उत्तमधर्मस्य श्रुतिमपि लब्ध्वा पुनः श्रद्धा दुर्लभा, तत्त्वरुचिदुष्प्राप्या दुष्प्रापा, यतो हि जनो लोको मिथ्यात्वनिषेवकः स्यात् । मिथ्यात्वं हि कुगुरु-कुदेव-कुधर्मलक्षणं नितरां सेवते इति मिथ्यात्वनिषेवकः । तस्मान्मिथ्यात्वोदयाज्जिनधर्मरुचिर्दुर्लभा, तस्मात्समयमात्रमपि त्वं मा प्रमादीः ॥ १९ ॥
धम्मं पि हु सद्दहंतया, दुल्लहया कारण फासया ।
इह कामगुणेसु मुच्छिया, समयं गोयम मा पमायए ॥ २० ॥
धर्मं - जिनोक्तं धर्मं श्रद्दधतः, जिनोक्तमागमं साधु-श्राद्धधर्मं वा सर्वं सत्यमिति जानतोऽपि जीवस्य कायेन शरीरेण, कायग्रहणेन कायसम्बद्धयोर्वाङ्मनसोरपि ग्रहणम् । तस्मात्कायेन वचसा मनसा च स्पर्शना दुर्लभिका, दुर्लभा एव दुर्लभिका । धर्मक्रियानुष्ठानकरणं दुष्करमित्यर्थः । इह जगति जीवाः कामगुणेषु विषयेषु मुच्छिता-लोलुपा भवन्ति । विषयिणो हि धर्मक्रियास्वयोग्याः । हे गौतम! धर्मक्रियानुष्ठानकरणं दुष्करत्वात् समयमात्रमपि प्रमादं मा कुर्याः ॥ २० ॥
परिजूर ते सरीरयं, केसा पंडुरया हवंति ते ।
से सोयबले यहायई, समयं गोयम मा पमायए ॥ २१ ॥
हे गौतम! ते शरीरकं परिजीर्यति, परि-समन्तात्सर्वप्रकारेण वयोहानिर्जरया जीर्णत्वमनुभवति । तव पुनः केशाः पाण्डुरका :- श्वेता भवन्ति, अत्र 'ते' तवेति कथनात्प्रत्यक्षानुभवेन सन्देहो न कर्तव्यः । यथा हस्तकङ्कणस्यात्मदशावलोकनं । यथा तव शरीरं तथा सर्वेषामेव ज्ञेयमित्यर्थः । 'से' इति तच्छ्रोत्रबलं हीयते - हीनं स्यात् । तच्छब्दग्रहणाद्यच्छब्दग्रहणं कर्तव्यम्, यत् श्रोत्रयोर्बलं तरुणावस्थायां स्यात्तद् वृद्धावस्थायां हीयत इत्यर्थः । अपूर्वं श्रोत्रग्रहणं धर्मश्रवणकारणत्वख्यापनार्थम् । यतो हि धर्मश्रवणादेव धर्मकरणमतिः स्यादित्यर्थः । तस्मात् श्रोत्रबले सति धर्मश्रवणादरः कर्तव्यः तत्र समयमात्रमपि त्वं मा प्रमादीः ॥ २१ ॥
परिजूर ते सरीरयं, केसा पंडुरया हवंति ते ।
से चक्खुबले य हायई, समयं गोयम मा पमायए ॥ २२ ॥