________________
दशमं दुमपत्रकाख्यमध्ययनम् १०]
[१६७ देवे-देवभवे नरके-नरकभवेऽधिगतः संसारी जीव उत्कृष्टमेकैकस्मिन् भवग्रहणे संवसेत् । तस्मात्समयमात्रमपि प्रमादं मा कुर्याः । देवो मृत्वा देवो न स्यात्, नारको मृत्वा नारको न स्यात् । एकमन्यद्भवान्तरं कृत्वा पश्चात्स्यादित्यर्थः । तस्मादेकैकभवग्रहणमित्युक्तम् ॥१४॥
एवं भवसंसारे, संसरइ सुहासुहेहि कम्मेहिं ।
जीवो पमायबहुलो, समयं गोयम मा पमायए ॥१५॥ एवममुना प्रकारेण जीवो भवसंसारे-भवभ्रमणे शुभाशुभैः कर्मभिः प्रेर्यमाणः संसरति-पर्यटति। कीदृशो जीवः ? प्रमादबहुलः, प्रमादो बहुलो यस्यसप्रमादबहुलः प्रमादवर्तीत्यर्थः । तस्मात्प्रमादस्य दुर्निवारत्वं ज्ञात्वा समयमात्रमपि प्रमादं मा कुर्याः ॥१५॥
मनुष्यत्वप्राप्तोऽप्युत्तरोत्तरगुणातिर्दुर्लभेत्याहलक्षूणवि माणुसत्तणं, आयरियत्तं पुणरवि दुल्लहं । बहवे दसुया मिलक्खुया, समयं गोयम मा पमायए ॥१६॥
मनुष्यत्वमपि लब्ध्वा आर्यत्वमार्यदेशोत्पत्तिभावं पुनरपि दुर्लभम् । यद्यपि मनुष्यत्वं जीवः प्राप्नोति, तदाप्यार्यदेशे मनुष्यत्वं दुर्लभमित्यर्थः । यत्र देशेषु धर्माऽधर्मजीवाऽजीवविचारः स आर्यो देशस्तत्रोत्पत्तिर्दुर्लभा । पुनरपि बहवो जीवा दस्यवश्चौरा देशानां प्रान्ते पर्वतादिषु निवासकारिणस्तस्करा भवन्ति । म्लेच्छाः के ? येषां वाक् सम्यक्केनापि न ज्ञायते ते म्लेच्छा उच्यन्ते ।
"पुलिंदा नाहला नेष्टा, शबरा बरटा भटाः । माला भिल्लाः किराताश्च, सर्वेऽपि म्लेच्छजातयः ॥ १ ॥" [अभि. ९३४] तत्र च धर्माऽधर्मज्ञानं दुर्लभम्, तस्मात्समयमात्रमपि प्रमादं मा कुर्याः ॥ १६ ॥
लधुणवि आयरियत्तणं,अहीणपंचेंदिययाहु दुल्लहा । विगलिंदियया हु दीसई, समयं गोयम मा पमायए ॥१७॥
आर्यत्वमार्यदेशोत्पत्तिभावमपिलब्ध्वा हु'इति पुनरर्थे अहीनपञ्चेन्द्रियता पुनर्दुर्लभा। 'हु' इति बाहुल्येन बहूनां विकलेन्द्रियता दृश्यते । विकलानि रोगाद्युपहतानीन्द्रियाणि येषां ते विकलेन्दियास्तेषां भावो विकलेन्द्रियता, सा दृश्यते । बहवो हिदुष्कर्मवशादोगोदेकेण विगतनेत्र-श्रवण-रसन-स्पर्शन-कर-चरण-वीर्याः दृश्यन्ते । ते च धर्मानुष्ठानकरणेऽसमर्था भवन्ति । तस्मात्त्वं समयमात्रमपि हे गौतम ! प्रमादं मा कुर्याः ॥१७॥
अहीणपंचिंदियत्तं पिसे लहे, उत्तमधम्मसुइ हुदुल्लहा । कुतित्थिनिसेवए जणे, समयं गोयम मा पमायए ॥१८॥