________________
१६६]
[उत्तराध्ययनसूत्रे ___ जीवः संसारी वनस्पतिकायमधिगत उत्कर्षत - उत्कृष्टं कालमनन्तमुत्सर्पिण्यवसर्पिणीमानमनन्तकायिकापेक्षं वसेत्, कथम्भूतमनन्तं कालं ? दुरन्तं, दुष्टोऽन्तो यस्य स दुरन्तस्तम्, ते हि वनस्पतिकायमध्यगता जीवास्तत्स्थानादुद्धृता अपि प्रायो विशिष्टं नरादिभवं न लभन्ते, तस्माद् दुरन्तमिति विशेषणम् ॥९॥ . . ..
बेइंदियकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसन्नियं, समयं गोयम मा पमायए ॥१०॥
द्वीन्द्रियकार्य जीवोऽधिगतः सन्नूत्कृष्टंकालं सङ्ख्यातसंज्ञकं, सङ्ख्यातासङ्ख्यातवर्षसहस्रात्मिका संज्ञा यस्य ससङ्ख्यातसंज्ञकस्तं सङ्ख्यातसंज्ञक सङ्ख्यातवर्षसहस्रात्मकं कालं द्वीन्द्रियकार्य तिष्ठेदित्यर्थः । तस्मात्समयमात्रमपि गौतम ! मा प्रमादं कुर्याः ॥१०॥
तेइंदियकायमइगओ, उक्कोसं जीवो उ संवसे ।
कालं संखिज्जसन्नियं, समयं गोयम मा पमायए ॥११॥ एवं जीवस्त्रीन्द्रियकायमधिगतः सङ्ख्यातवर्षसहस्रात्मकं कालमुत्कृष्टं वसेत् । तेन त्वं समयमात्रमपि प्रमादं मा कुर्याः ॥ ११ ॥
चउरिदियकायमइगओ, उक्कोसं जीवो उ संवसे ।
कालं संखिज्जसन्नियं, समयं गोयम मा पमायए ॥१२॥ एवं जीवश्चतुरिन्द्रियकायेऽधिवसन् सङ्ख्यातवर्षसहस्रात्मकं कालमधिवसेत् । तस्मात्त्वं प्रमादं समयमात्रमपि मा कुर्याः ॥१२॥
पंचिंदियकायमइगओ उक्कोसं जीवो उ संवसे ।
सत्तभवग्गहणे, समयं गोयम मा पमायए ॥ १३ ॥ पञ्चेन्द्रियकायमधिगतः पञ्चेन्द्रियत्वं प्राप्तः सन्नुत्कृष्टं सप्ताष्टभवग्रहणे संवसेत् ।सप्ताष्टौ वा परिमाणं येषां ते सप्ताष्टाः, सप्ताष्टाश्च ते भवाश्च सप्ताष्टभवास्तेषां ग्रहणं सप्ताष्टभवग्रहणम् तस्मिन् । यदा हि पञ्चेन्द्रियो मृत्वा पञ्चेन्द्रियो भवेत्तदोत्कृष्टं सप्ताष्टवारस्यादित्यर्थः । तस्मात्समयमात्रमपि मा प्रमादीः । कश्चित्पुण्यवान् सङ्ख्यातायुष्को जीवो सप्तभवान् करोति। कश्चिदसङ्ख्यातायुष्को 'जीवोऽष्टभवान् वा करोति, एवं ज्ञात्वा प्रमादो न विधेयः॥१३॥
देवे नेइए य अइगओ, उक्कोसंजीवो उ संवसे। इक्केकभवग्गहणे, समयं गोयम मा पमायए ॥१४॥
१ जीवो युगलादिकः-L. मु.१॥