________________
दशमं दुमपत्रकाख्यमध्ययनम् १०]
[१६५ "धनेषु जीवितव्येषु, रतिकामेषु भारत ! ।। अतृप्ताः प्राणिनः सर्वे, याता यास्यन्ति यान्ति च ॥ १ ॥"
[अत्र सोपक्रमनिरुपक्रमायुर्ज्ञानं केवलिन एव भवेत् ॥३॥] दुल्लहे खलु माणुसे भवे, चिरकालेण वि सव्वपाणिणं। गाढा य विवाग कम्मुणो, समयं गोयम मा पमायए ॥४॥
खल्विति निश्चयेन सर्वप्राणिनां - सर्वजीवानां चिरकालेनापि मनुष्यो भवो दुर्लभोदुष्प्राप्यो (दुष्प्रापो) वर्तते, तत्र हेतुमाह-कर्मणां मनुष्यगतिविघातकानां विपाका-विगाढा विशेषेण गाढा विगाढा-विनाशयितुमशक्यास्तस्मात्समयमात्रमपि प्रमादं मा कुर्याः॥४॥ कथं मनुजत्वं दुर्लभमित्याह
पुढविक्कायमइगओ, उक्कोसं जीवो उ संवसे ।
कालं संखाईओ, समयं गोयम मा पमायए॥५॥ जीवः संसारी पृथ्वीकायमधिगत:- पृथ्वीकायभावं प्राप्तः सन्नुत्कर्षत - उत्कृष्टकालं सङ्ख्यातीतमसङ्ख्योत्सर्पिण्यवसर्पिणीमानं कालं संवसेत्तदूपतयावतिष्ठेत्, तस्मात्समयमात्रमपि मा प्रमादीः ॥५॥
आउक्कायमइगओ, उक्कोसं जीवो उ संवसे ।
कालं संखाईओ, समयं गोयम मा पमायए ॥६॥ तथाप्कायमधिगतो जीव उत्कृष्टमसङ्ख्योत्सर्पिण्यवसर्पिणीमानं कालं संवसेत् तस्मात् समयमात्रमपि मा प्रमादीः ॥६॥
तेउक्कायमइगओ, उक्कोसं जीवो उ संवसे ।
कालं संखाईओ, समयं गोयम मा पमायए ॥७॥ एवं तेजस्कायमग्निकायमधिगतो जीव उत्कृष्टं सङ्ख्यातीतं कालमसङ्ख्योत्सर्पिणीकालं संवसेत्, तस्मात्समयमात्रमपि प्रमादं मा कुर्याः ॥७॥
वाउक्कायमइगओ, उक्कोसं जीवो उ संवसे ।
कालं संखाईओ, समयं गोयम मा पमायए ॥८॥ ___एवं जीवो वायुकायमधिगतोऽप्युत्कृष्टमसङ्ख्योत्सर्पिण्यवसर्पिणीप्रमाणकालं संवसेत्, तस्मात् समयमात्रमपि प्रमादं मा कुर्याः ॥८॥
वणस्सइकायमइगओ, उक्कोसं जीवो उ संवसे । कालमणंतं दुरंतं, समयं गोयम मा पमायए ॥९॥