________________
१६४]
[उत्तराध्ययनसूत्रे 'परियट्टियलावन्नं, चलंतसंधि मुअंतं बिटग्गं । पत्तं च वसणपत्तं, 'काले पत्ते भणइ गाहं ॥ १ ॥ जह तुब्भे तह अम्हे, तुब्भेवि अ होहिआ जहा अम्हे। . अप्पाहेइ पडतं, पंडुअपत्तं किसलयाणं ॥ २ ॥ . नवि अत्थि नवि अ होही, उल्लावो किसलपंडुपत्ताणं । उवमा खलु एस कया, भवियजण विबोहट्ठाए ॥ ३ ॥
[उत्त. नियुक्ति गा. ३०७-८-९] यथा हि किसलयानि पाण्डुपत्रेणाऽनुशिष्यन्ते तथान्योऽपि यौवनगर्वितोऽनुशासनीयः ॥१॥
अथायुषोऽनित्यत्वमाह. कुसग्गे जह ओसबिंदुए, थोत्रं चिट्ठइ लंबमाणए । __ एवं मणुयाण जीवियं, समयं गोयम मा पमायए ॥२॥
हे गौतम ! समयमात्रमपि मा प्रमादीः । तत्र हेतुमाह-यथा कुशस्याग्रेऽवश्यायबिन्दुर्लम्बमानः सन् स्तोकं-स्तोककालं तिष्ठति, वातादिना प्रेर्यमाणः सन् पतति, तथा मनुष्याणां जीवितमायुरस्थिरं ज्ञेयम् । एवमायुषोऽनित्यत्वं ज्ञात्वा धर्मे प्रमादो न विधेय इत्यर्थः ॥२॥
इ इ इतरियंमि आउए, जीवियए बहुपच्चवायए।
विहुणाहि रयं पुरेकडं, समयं गोयम मा पमायए ॥३॥ इत्युक्तदृष्टान्तेन त्वरे-स्वल्पकालपरिमाणे मनुष्यस्यायुषि भो गौतम ! पुराकृतं रजःप्राचीनकृतं पातकं दुष्कर्म विशेषेण धुनीहि,जीवात्पृथक्कुरु! हेगौतम! पुनर्जीवितकेऽर्थात्सोपक्रमे आयुषिबहवः प्रत्यवाया उपघातहेतवोऽध्यवसायादयोवर्तन्ते यस्मिंस्तबहुप्रत्यवायकम्, तस्मिन् बहुप्रत्यवायके समयमपि मा प्रमादं कुर्याः ।अत्रायुःशब्देन निरुपक्रममायुभण्यते जीवितशब्देन सोपक्रम भण्यते।एति-प्राप्नोत्युपक्रमहेतुभिः,अनपवर्त्यतया यथास्थित्यैव अनुभवमित्यायुः, तस्मिन्नायुषि - निरुपक्रमे आयुषि स्वल्पपरिमाणेऽपि दुष्कृतं दुरीकुरु। यद्यपि पूर्वकोटिप्रमाणमायुर्भवति, तथापि देवापेक्षया स्वल्पमेव ज्ञेयमतृप्तत्वात् । यदुक्तं१ परिवर्तितलावण्यं चलन्तसन्धि मुञ्चन्तकम् । पत्रं च व्यसनप्राप्तं, काले प्राप्ते भणति गाथाम् ॥१॥ २ कालप्पत्तं - निर्युक्तौ ॥
यथा यूयं तथा वयं,यूयमपिच भविष्यथ यथा वयम् ।
उपदिशति पतत् पाण्डुपत्रं किसलयानाम् ॥ २॥ नैवास्ति नैव च भविष्यति, उल्लापः किसलयपाण्डुपत्राणाम्। उपमा खल्वेषा कृता, भविकजनविबोधनार्थम् ॥ २ ॥