________________
दशमं द्रुमपत्रकाख्यमध्ययनम् १०]
[ १६३
शिष्यैः सह गौतमस्वामी ततश्चलितः कस्मिंश्चिद् ग्रामे गतः । भिक्षावेला जाता, गौतमेनोक्तं यद्भवतां रोचते तद्वक्तव्यम्, मया तदानीयते, तैरुक्तं पायसमानेयम्, सर्वलब्धिसम्पन्नो गौतमः क्वचिद् गृहे पतद्ग्रहं पायसेन भृतवान् । उपाश्रये आगत्य सर्वेषां तेषां मण्डल्यामुपवेशितानां पात्रेषु क्षीरं परिवेषितवान् । न च क्षीरं क्षीणं भवति । महानसिकलब्धिमता गौतमेन पतद्ग्रहेऽङ्गुष्ठक्षेपाज्जेमतामेव सेवालतापसानामीदृशः परिणामो जातोऽहोऽस्माकं शुभकर्मोदयो जातः । यतोऽनभ्रवृष्टिसदृशः समस्तशास्त्रार्णवपारगामीदृशो गुरुरस्माभिर्लब्धः। इत्यादि भावनां भावयतां तेषां तदैव केवलज्ञानमुत्पन्नम् ।
दिन्नतापसानां तु भोजनानन्तरं चलितानां भगवत्समीपे प्राप्तानां भगवतश्छत्रादिविभूर्ति च पश्यतां तथाविधशुभाध्यवसाययोगेन केवलज्ञानमुत्पन्नम् । कोडिन्नतापसानां तु स्वामिनं साक्षाद् दृष्ट्वा तादृशाध्यवसायेनैव केवलज्ञानमुत्पन्नम् । गौतमस्वामी भगवच्चरणौ प्रणनाम, ते तापसमुनयः केवलिनस्त्रिः प्रदक्षिणीकृत्य केवलिपर्षदभिमुखं चलिताः । तदा गौतमस्वामी भणति - इहागच्छत । भगवन्तं प्रणमत । भगवान् महावीरः प्राह- गौतम ! केवलिनो माशातय । ततो गौतमस्तेषां मिथ्यादुष्कृतं ददौ । ततः परं गौतमस्य हत्यधृतिर्जाता । ततो भगवान् महावीरो गौतमस्वामीनं प्रत्याह-गौतम ! पूर्वभवपरिचितत्वेन तव मयि महान् रागोऽस्तीति । तत्क्षयमन्तरेण तव केवलज्ञानं नोत्पद्यते, क्षीणे च अस्मिन्नेव भवे तवावश्यं केवलमुत्पत्स्यते, प्रशस्तोऽपि रागः केवलप्रतिबन्धको भवत्येव । त्वमहं च द्वावपि निर्वाणे तुल्यौ भविष्याव इति माऽधृतिं कार्षीरिति । तदानीं स्वामी महावीरो दुमपत्तयमध्ययनं प्ररूपितवान् । इदं चाध्ययनं सूत्रतोऽर्थतश्च भगवता श्रीमहावीरेणैव प्ररूपितमिति 'श्रीमदुत्तराध्ययनबृहद्वृत्तौ । ततो ये वदन्त्युत्तराध्ययनसूत्रे वीरवाणीस्पर्शोऽपि नास्ति ते कुमतय एव बोधव्याः ।
दुमपत्त पंडुयए जहा निवडइ राइगणाण अच्चए ।
एवं मणुआणजीवियं, समयं गोयम मा पमाय ॥ १ ॥
भगवान् श्रीमहावीरदेवो गौतमस्वामिनमुद्दिश्यान्यानपि भव्यजीवानुपदिशति - हे गौतम ! एवमनेन दृष्टान्तेन मनुजानां मनुष्याणां जीवितं जानीहि त्वं समयं समयमात्रमपि मा प्रमादीः प्रमादं मा कुर्याः । अत्र समयमात्रग्रहणमत्यन्तप्रमादनिवारणार्थम्, अनेन केन दृष्टान्तेन ? तद् दृष्टान्तमाह-यथा रात्रिगणानामत्यये-गमने, रात्रीणां गणा रात्रिगणाःकालपरिणामा रात्रिदिवससमूहास्तेषामत्ययेऽतिक्रमे पाण्डुरकं दुमपत्रकं पक्वं वृन्ताच्छि थिलीप्रायं पर्णं निपतति, तथैव दिनानामत्यये आयुर्लक्षणे वृन्ते शिथिले जाते सति जीवितं - शरीरं पतति, जीवो जातो यस्मिंस्तज्जीवितं शरीरमित्यर्थः, जीवितशब्देन शरीरमुच्यते । यदाह नियुक्तिकार :
१ 'तन्नीसाए भयवं सीसाणं देइ अणुसिद्धिं ।' इति उत्त० निर्युक्तिः गा. ३०६ ।
गौतमनिश्रया 'अनुशिष्टिं' शिक्षाम् । इत्यनेनाभिप्रायेण सूत्रतोऽर्थतश्च भगवतोक्तं इदमध्ययनमेवं उक्तमस्ति, एवमनुमेने ॥