________________
१६२]
[उत्तराध्ययनसूत्रे कृतपुण्यस्त्वं सुलक्षणस्त्वम्, सुलब्धमनुष्यभवस्त्वम्, येन राज्यमन्तःपुरं च परिहत्य संयममादृतवान् । एवं द्विरं त्रिर्वारं वा पुण्डरीकेणोक्ते प्राप्तलज्जः पुण्डरीकराजानमापृच्छ्य कण्डरीकः स्थविरैः समं ततो विजहार । कियत्कालमुग्रविहारं कृत्वा पश्चात्संयमाद्विखिन्नः 'शनैः शनैः स्थविरान्तिकानिर्गत्य पुण्डरीकिण्यां नगर्यामशोकवनिकायामशोकवरपादपस्याधः समागत्य शिलापट्टमारूढ उपहतमनः सङ्कल्पः किञ्चिद् ध्यायन्नेव तिष्ठति । ततः पुण्डरीकधात्री प्रसंगात्तत्रायाता, तं दृष्ट्वा पुण्डरीकाय न्यवेदयत् । पुण्डरीकोऽपि तत्रागत्य तं त्रिःप्रदक्षिणीकृत्य धन्यस्त्वमित्याद्युक्तवान् । कण्डरीकस्य तद्वचनं न रोचते, सर्वथा संयमाभ्रष्टं तं ज्ञात्वा पुण्डरीकः पुनरेवमुवाचाहो भ्रातस्ते यदि विषयार्थस्तदेदं राज्यं गृहाणेत्युक्त्वा तं राज्येऽभिषिक्तवान् । स्वयं तु पञ्चमौष्टिकं लोचं कृत्वा संयममुपात्तवान् । कण्डरीकसत्कं पात्रोपकरणादिकं च गृहीतवान् । स्थविराणामन्तिके प्रव्रज्यां गृहीत्वाहारं गृहीष्ये, नान्यथेत्यभिग्रहं कृत्वा स्थविराभिमुखमेकाक्येव चलितः।
कण्डरीकस्तु राजगृहान्तर्गत्वा तस्मिन्नेव दिने सरसमाहारं भुक्तवान् । रात्रौ च तस्य 'तदाहारसारस्यात्कृशशरीरस्योदरे महाव्यथोत्पन्ना। न कोऽपि तस्याग्रे मन्त्रिसामन्तादिकश्चिकित्सार्थं समायाति । प्रव्रज्यापरित्यागादयोग्य इत्ययं सर्वैरपि लोकैरुपेक्षित आर्त्तरौदध्यानोपपन्नः कालं कृत्वा सप्तमनरकपृथिव्यां नारकत्वेनोत्पन्नः । पुण्डरीकस्तु स्थविरान्तिके गत्वा पुनर्दीक्षां गृहीतवान् । प्रथममष्टमं तपः कृतवान् । पारणे च शीतलरूक्षाहारेण वपुषि महावेदना समुत्पन्ना। ततस्तेनानशनं विहितम् । चत्वारिशरणानि कृतानि ।आलोचितप्रतिक्रान्तः पुण्डरीकः कालं कृत्वा सर्वार्थसिद्धविमाने देवत्वेनोत्पन्नः। इममाख्यातं वैश्रमणाने उक्त्वैवं पुनरुवाचाहो देवानुप्रिय ! दुर्बलशरीरोऽपि कण्डरीकः सप्तमी भूमि गतवान् । सबलशरीरोऽपि पुण्डरीकः सर्वार्थसिद्धविमाने गतस्तस्माद् दुर्बलशरीरं संयमसाधनं सबलशरीरं तद्व्याघातकम्, एवं नियमो नास्ति । किन्तु ध्यानमेव तत्साधनम्, यस्य शुभध्यानं स संयमाराधकः । यस्य तु ध्यानमशुभं स संयमविराधकः ।
एवं गौतमस्वामिव्याख्यानं श्रुत्वा वैश्रमणो वन्दित्वा स्वस्थानं गतः।गौतमः प्रभाते चैत्यानि नमस्कृत्याष्टापदात्प्रत्यवतरति स्म, तापसास्तदैवमाहुः- यूयमस्मद्गुरवो वयं भवच्छिष्या भवामः । गौतमस्वामी भणति-मम धर्माचार्यस्त्रिलोकगुरुर्वर्धमाननामास्ति । ते च भणन्ति-युष्माकमप्याचार्यो वर्तते किं ? गौतमः प्राहेदृशो मम धर्माचार्यों वर्तते, यथा सर्वज्ञः, सर्वदर्शी, रूपसंपदा तिरस्कृतत्रिलोकरूपः, किङ्करीकृतसकलसुरासुरविरचितसमवसरणोपविष्ट उपरिधृतश्छत्रत्रयः सुरेन्द्रवीज्यमानचामरयुगलः, चतुस्त्रिंशदतिशयनिधानः श्रमणभगवान श्रीमहावीरनामा वर्तते ।
एवं वीतरागस्वरूपमाकर्ण्य तेषां तापसानां सम्यक्त्वोपचयः संपन्नः । ततः सर्वेऽपि तापसा गौतमस्वामिना प्रवाजिताः ।शासनदेव्या तेषां सर्वेषां लिङ्गान्युपनीतानि । तैः सर्वैः
१ तदाहारस्य रसात्-मु० । तदाहारसारात्-मु०१॥