SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ दशमं दुमपत्रकाख्यमध्ययनम् १०] [१६१ शुष्कमांस-रुधिराः कृशशरीरा भवन्ति ।इमां गौतमक्रियमाणां देशनां श्रुत्वा वैश्रमणमनस्येवं विसंवादो जातोऽहो एतेषां विशेषपुष्टिद्युतिधरं शरीरम्, यतिवर्णनं चेदृशमिति वैश्रमणमनोवितकं ज्ञात्वा गौतमस्तदा पुण्डरीकाध्ययनं प्ररूपितवान् । तथा च - पुष्कलावतीविजये पुण्डरीकिण्यां नगर्यां महापद्मराजाभवत्, तस्य पद्मावती राज्ञी बभूव, तस्याः कुक्षिसम्भूतौ पुण्डरीक-कण्डरीकनामानौ पुत्रौ जातौ ।पितर्युपरते पुण्डरिको राजा जातः, कण्डरीको युवराजा जातः । अन्यदा तत्र स्थविराः साधवः समायाताः, स्थिता नलिनीवनोद्याने, कण्डरीकसहितो पुण्डरीकस्तत्र गतो वन्दित्वाग्रे निषण्णस्तेषां 'देशनां शुश्राव, पुण्डरीकः श्रावकधर्मं प्रपन्नवान्, कण्डरीकः प्रबुद्धस्तान् प्रत्येवं जगाद-अहं भवन्निकटे प्रव्रज्यां गृहीष्ये । नवरं पुण्डरीकराजानं प्रति पृच्छामीत्युक्त्वा पुण्डरीकं प्रत्यहं प्रव्रजामीत्युक्तवान्, पुण्डरीकोऽप्याह इदानीं त्वं मा प्रव्रज्यां गृहाण, तवाद्य राज्याभिषेकं करोमि, त्वं निश्चिन्तः सन् राज्यं पालय । यथेष्टं सुखं भज । कण्डरीको नैतदङ्गीकुरुते, पुनः प्रव्रज्याग्रहमेव कुरुते, यावदसौ राज्यादिलोभेन गृहे स्थापयितुं पुण्डरीकेण न शक्यते, तावत्संयमकष्टं पुण्डरीकोऽस्य दर्शयति-अयं संयमः सत्यः दुर्व्वहदुःखक्षयंकरः, परंवालुकास्वादसदृशः, गङ्गाप्रमुखमहानदीप्रवाहसन्मुखगमनवद् दुःसाध्यः, भुजाभ्यां समुद्रतरणवत्कष्टानुष्ठेयः। अत्र द्वाविंशतिपरीषहाः सोढव्याः । ततः सुकुमालशरीरेण भवता नायं संयमः परिपालयितुं शक्यः । तस्माद् गृह एव तिष्ठ। राज्यसुखं च भजेति पुण्डरीकेणोक्तः कण्डरीकः प्राह-कापुरुषाणां-परलोकपराङ्मुखाणामिहलोकविषयसुखतृष्णावतामयं संयमो दुष्पालोऽस्ति, अहं च विषयसुखपराङ्मुखः परलोकसम्मुखः शूरतरोऽस्मीति नाहं संयमाद्विभेमीति वदन्तं कण्डरीकं पुण्डरीको राजा संयमग्रहणार्थमनुज्ञातवान् । पुण्डरीककारितमहामहःपूर्वकं कण्डरीकः संयमं गृहीतवान् क्रमेण स्थविरान्तिके स एकादशाङ्गानि पपाठ । चतुर्थ-षष्ठा-ऽष्टमादितपांसि प्रत्यहं चकार । एकदा तस्य तपस्विनस्तपःपारणके तुच्छाहारैर्दाहज्वरादयो रोगाः प्रादुर्भूताः, तथाप्यसौ स्थविरैः समं विहारं चकार। ____एकदा ते स्थविराः कण्डरीकेण समं विहरन्तः पुण्डरीकिण्यां नगर्यां समायाताः । नलिनीवने समवसृताः, पुण्डरीकराजा तेषां वन्दनाय तत्रायातः । स्थविराणां देशनां श्रुत्वा कण्डरीकमृर्षि वन्दते । तद्वपुः सरोगं पश्यति । पुनः स्थविरान्तिके समागत्यैवमवादीद्यदि स्थविराणामाज्ञा स्यात्तदाहं कण्डरीकमुनेर्वपुषि प्रासुकौषधादिभिश्चिकित्सां कारयामि । यूयं मम यानशालायां तावत्कालं तिष्ठत । ततस्ते स्थविराः कण्डरीकेण समं यानशालायां गत्वा स्थिताः । ततः स पुण्डरीकराजा कण्डरीकस्य प्रासुकौषधैश्चिकित्सां कारयति । त्वरितमेव तस्य रोगोपशान्तिर्जाता । स्थविरास्ततो विहारं चक्रुः। ___ रोगातङ्काद्विप्रमुक्तोऽपि कण्डरीकमुनिर्मनोज्ञाहारादिमूच्छितस्ततो विहारं कर्तुं नेच्छति । कण्डरीकस्य तादृशं स्वरूपमाकर्ण्य पुण्डरीकराजा तदन्तिके समागत्यैवमाह धन्यस्त्वम्, १ धर्मदेशनां-मु०॥ ૨૧
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy