________________
१६०]
[उत्तराध्ययनसूत्रे गौतमस्वामी तैः शिष्यैः सह पश्चाद्वलितः, मार्गे शाल-महाशालयोः शुभाध्यवसायेन केवलज्ञानमुत्पन्नम् । पुनरग्रे गच्छतां गाङ्गलिप्रमुखाणां त्रयाणामपि तथैव शुभध्यानेन केवलज्ञानमुत्पन्नम् । एवं सर्वेऽपि ते गौतमसहिताश्चम्पायां गताः । गौतमस्वामिना भगवच्चरणौ प्रणतो, शालमहाशालादिकेवलिनो भगवतः प्रदक्षिणां कृत्वा तीर्थं प्रणम्य केवलपर्षदभिमुखं चलिताः । तावदुत्थितो गौतमस्तान् प्रत्येवं भणति-भोः शिष्याः क्व व्रजत ? वन्दत तीर्थङ्करं । तावता भगवान् प्राह-गौतम ! केवलिनो माशातयेति भगवद्वचसा गौतमस्तान् क्षामयति । मनस्येवं चिन्तयति, अहं न सेत्स्यामि किं ? मदीयाः शिष्याः 'केवलमासादयन्ति, अद्य यावन्मया केवलज्ञानं नाप्तम्। .
अस्मिन्नवसरे मिथो देवानामेवं संलापो वर्तते-अद्य भगवता व्याख्यानावसरे एवमादिष्टम्-यो भूमिचरः स्वलब्ध्याष्टापदादौ चैत्यादि वन्दते स तत्रैव भवे सिद्धि यातीति श्रुत्वा गौतमः स्वामिनं पृच्छति-हे भगवत्रहमष्टापदे चैत्यानि वन्दितुं यामीति? भगवतोक्तं व्रजाष्टापदे । तत्र चैत्यानि वन्दस्व । ततो हृष्टो गौतमो भगवच्चरणौ वन्दित्वा तत्र गतः, पूर्व हि तत्राष्टापदे तादृग्जनसंवादं श्रुत्वा पञ्चपञ्चशतपरिवारास्त्रयः कोडिन्न-दिन-सेवालाख्यास्तापसा गताः सन्ति तेषु कोडिन्नस्तापसः सपरिवार एकान्तरोपवासेन भुङ्क्ते, पारणे मूलकन्दान्याहारयति, सोऽष्टापदे प्रथममेखलामारूढोऽस्ति । द्वितीयो दिन्नतापसः सपरिवारः प्रत्यहं षष्ठषष्ठपारणके परिशटितानि पर्णानि भुङ्क्ते, सद्वितीयमेखलामारूढोऽस्ति ।तृतीयः सेवालतापसः सपरिवारो निरन्तरमष्टमपारणके सेवालं भुक्ते, सतृतीयमेखलामारूढोऽस्ति।
एवं तेषु क्लिश्यमानेषु गौतमः सूर्यकिरणावलम्बेन तत्रारोढुमारब्धः, ते तापसाश्चिन्तयन्त्येष स्थूलवपुः कथमत्राधिरोढुं शक्ष्यते ? वयं तपस्विनोऽप्यशक्ताः । एवं चिन्तयस्वेव तेषु पश्यत्सु स गौतमः क्षणादष्टापदपर्वतशिखरमधिरूढः, ते पुनरेवं चिन्तयन्ति यदासाववतरिष्यति तदास्य शिष्या वयं भविष्यामः । गौतमस्वामी प्रासादमध्ये प्राप्तो निजनिजवर्णपरिमाणोपेताश्चतुर्विंशतिजिनेन्द्राणां भरतकारिताः प्रतिमा ववन्दे । तासां चैवं स्तुति चकार___'जगचिंतामणि जगनाह, जगगुरु जगरक्खण।' इत्यादि स्तुति कृत्वा पूर्वदिग्भागे पृथिवीशिलापट्टकेऽशोकवरपादपस्याध एकरात्रौ पर्युषितः । इतश्च शक्रलोकपालो वैश्रमणस्तत्र चैत्यानि वन्दितुमायातः, प्रत्येकं चैत्यानि वन्दित्वाऽशोकतरोरधः समायातः । गौतमस्वामिनोऽग्रे वन्दित्वा निषण्णः, तस्याग्रे गौतम एवं धर्मं कथयति-धर्माऽर्थकामास्त्रयः पुरुषार्थाः तत्रार्थ-कामसाधकत्वेन धर्म एव प्रधानः, स च देवगुरुभक्तिरागेण भवति । देवः पुनः सर्वज्ञः सर्वदय॑ष्टादशदोषरहितो भवति । गुरवः सुसाधवो भवन्ति, साधवः समशत्रुमित्राः समलोष्टकाञ्चनाः पञ्चसमितास्त्रिगुप्ता अममा अमत्सरा जितेन्द्रिया जितकषाया निर्मलब्रह्मचर्यधराः स्वाध्यायध्यानशक्ता दुश्चरेण तपश्चरणान्त-प्रान्ताहाराः १ केवलज्ञानमा -मु. ॥२ जगचिन्तामणिर्जगनाथो, जगगुरुर्जगरक्षणः ॥