________________
॥अथ दशमं द्रुमपत्रकाख्यमध्ययनं प्रारभ्यते ॥
नवमेऽध्ययने चारित्रविषये निष्कम्पत्वमुक्तम्, तनिष्कम्पत्वं शिक्षात एव भवति । ततो दशमेऽध्ययने शिक्षा वदति, इति नवम-दशमाध्ययनयोः सम्बन्धः । दशममध्ययनं श्रीगौतममुद्दिश्य श्रीवीरेणाभिहितमिति गौतमवक्तव्यता तावदुच्यते
पृष्ठिचम्पा नाम्नी नगरी, तत्र शालनामा राजा, महाशालनामा युवराजा, तयोर्भगिनी यशोमती, तस्याः पिठरनामा भर्तास्ति, यशोमतीकुक्षिसम्भूतः पिठरपुत्रो गाङ्गलिनामा वर्तते । अन्यदा भगवान् श्रीमहावीरस्तत्र समवसृतः । शालराजा महाशालादिपरिवृतस्तत्रागतो भगवन्तं वन्दित्वाग्रे धरणीतलोपविष्ट: श्रीमहावीरकृतामिमां देशनामश्रणोत्मानुष्यादिका धर्मसाधनसामग्री दुर्लभास्ति, मिथ्यात्वादयो धर्मप्रतिबन्धहेतवो बहवो वर्तन्ते । महारम्भादीनि नरककारणानि सन्ति । जन्मादिदुःखप्रचुरः संसारोऽस्ति, कषायाः संसारपरिभ्रमणहेतवः सन्ति, कषायपरित्यागे च मोक्षप्राप्तिरिति भगवद्देशनां श्रुत्वा संवेगमुपागतः शालराजा जिनेन्द्रं प्रत्येवमुवाच, भगवच्चरणमूलेऽहं तपस्यामादास्ये, परं महाशालं यावदाज्ये स्थापयामि तावत् श्रीभगवद्भिरन्यत्र विहारो न कार्यः।
भगवतोक्तं प्रतिबन्ध मा कार्षीरिति शालराजा गृहे गत्वा महाशालं भ्रातरं प्रत्येवमाहबन्धो ! त्वं राज्यं पालय, अहं व्रतं गृह्णामि । महाशाल उवाच-भवद्वदहं संविग्नोऽस्मि । अलं महारम्भहेतुना राज्येन, ममापि प्रव्रज्याग्रहणमनोरथोऽस्ति । तदा शालराज्ञा भगिनीपुत्रो गाङ्गलिः स्वराज्येऽभिषिक्तः, शालमहाशालौ द्वाबपि प्रवजितौ भगिनी श्रमणोपासिका जाता । भगवांस्ततो विहारं चकार । शाल-महाशालमुनी एकादशाङ्गान्यधीतौ, अन्यदा भगवान् राजगृहे समवसृतः । तत्रानेकभव्यान् प्रतिबोध्य स्वामी चम्पायां गतः । तत्र शालमहाशालौ स्वामिनं प्रत्येवमूचतुर्यदि भवदाज्ञा स्यात्तदा वयं पृष्टिचम्पायां व्रजामः । यदि कश्चित्तत्र प्रतिबुद्धयते सम्यक्त्वं वा लभते तदास्माकं महान् लाभो भवतीति । स्वामिना तदा तयोगौतमः सार्थे दत्तः । गौतमस्वामी ताभ्यां सह पृष्ठिचम्पायां गतः । तत्र गाङ्गलिराजा पिता-मातृभ्यां पिठर-यशोमतीभ्यां सह वन्दितुमायातः ।समागतायां पर्षद्येवं देशनां चकार
भो भव्य सत्त्वाः ! विषयप्रसक्ता मा तिष्ठत । अनेकदुःखदारुणे संसारे प्रतिबन्धं मा कुरुत । कष्टेन मनुष्यादिसामग्री प्राप्तास्ति, सन्ध्याभ्ररागसदृशो यौवनादिप्रपञ्चोऽस्ति, क्षणदृष्टो नष्टः सकलसंयोगोऽस्ति, जलबिन्दुचञ्चलं जीवितमस्ति । ततो जिनधर्मे प्रकाममुद्यम कुरुत । तथाकृतेऽचिरेण शाश्वतपदप्राप्तिर्भवतां भवतीति गौतमदेशनां श्रुत्वा गाङ्गलिः प्रतिबुद्धो भणति । भगवनहं भवदन्तिके प्रव्रज्यां गृहिष्ये । नवरं माता-पितरौ पृच्छामि, - ज्येष्ठपुत्रं च राज्ये स्थापयामि । एवमुक्त्वा गृहे गत्वा माता-पितरौ पृष्टौ, ताभ्यामुक्तं यदि त्वं प्रव्रजिष्यसि तदा वयमपि प्रव्रजिष्यामः । ततः पुत्रं राज्ये स्थापयित्वा गाङ्गलिराजा स्वमातृपितृभ्यां सह प्रव्रजितः । १ भगवदां -L.D.॥