SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ एकादशं बहुश्रुतपूजाऽऽख्यमध्ययनम् ११ ] पइन्नवाई दुहिले, थद्ध लुद्धे अणिग्गहे । असंविभागी अचियत्ते, अविणीएति वुच्चई ॥ ९ ॥ अथ तानि चतुर्दश स्थानानि विभजति । य ईदृशो भवति स च पुमान् अविनीत ' इत्युच्यते । ईदृशः कीदृश: ? अभीक्ष्णं वारंवारं क्रोधी भवति-क्रोधं करोति । च पुनः प्रबन्धं - क्रोधस्य वृद्धिम्, कुपितोऽपि कोमलवचनैरपि क्रोधस्यात्यजनम् - क्रोधस्य स्थिरीभावं प्रकुरुते । मित्रीग्रमाणोऽपि, 'मित्रं ममास्तु अयम्' इति विचिन्त्यमानोऽपि पश्चाद्वमति-त्यजति । कोऽर्थः ? पूर्वं हि मित्रभावं कृत्वा पश्चात्त्वरितं मित्रत्वं त्रोटयति । ननु साधवो हि कुत्रापि मित्रत्वं - स्नेहभावं केनापि सह न कुर्युः, संयोगाद्विप्रमुक्ता भवेयुः । तर्हि कथं 'मित्तिज्जमाणो वमइ' इत्युक्तम् ? अत्र हि षट्जीवनिकायेषु व्रतग्रहणसमये मैत्रीं विधाय शिथिलाचारित्वेन तां मैत्रीं त्यजेयुरित्यर्थः । अथवा केनापि धर्मशिक्षाशास्त्रार्थदानादिना उपकारः कृतः, स च हितकारत्वान्मित्रप्रायस्तत्र उपकारलोपत्वेन कृतघ्नत्वेन मित्रत्वं वमति । अविनीतस्यैतल्लक्षणमित्यर्थः । पुनर्यः श्रुतं लब्ध्वा माद्यति, ज्ञानाभ्यासादहङ्कारं करोति विद्यामदोन्मत्त इत्यर्थम् ॥ ७ ॥ अपिशब्दः सम्भावनायां यः पापपरिक्षेपी, अपि सम्भाव्यते पापैः समितिगुप्तिस्खलनैः परिक्षिपति तिरस्करोतीत्येवंशीलः पापपरिक्षेपी । समितिगुप्तिविराधकं प्रति तिरस्करोति । कोऽर्थः ? कदाचित् कश्चित् समितिगुप्तिष्वज्ञानितया स्खलति, तदा तं प्रति धिक्करोति, छिदं दृष्ट्वान्यं निन्दतीत्यर्थः । तथा मित्रेष्वपि कुप्यति, मित्रेभ्योऽपि शिक्षादातृभ्यः सङ्क्षेभ्यः क्रुध्यति, स्वयं क्रोधं करोति, तान् वा क्रोधयति । पुनः सुतरामतिशयेन प्रियस्य मित्रस्य हितवाञ्छकस्य गुर्वादेरपि रहसि एकान्ते पापकं पापमेव पापकमवर्णवादं भाषते । कोऽर्थः ? अग्रतः प्रियं वक्ति, पृष्टतः दोषं वक्तीत्यर्थः ॥ ८ ॥ [ १७५ पुनः प्रकीर्णवादी, प्रकीर्णमसम्बद्धं वदति इति प्रकीर्णवादी । अथवा प्रतिज्ञया च इदं इत्थमेव इत्यादिनिश्चयभाषणशीलः । पुनर्दूहिलो द्रोग्धा दोहकरणशील इत्यर्थः । पुनः स्तब्धोऽहङ्कारी, अहं तपस्वी इत्यादिजल्पकः । पुनर्लुब्धो रसयुक्ताहारादौ लोभी, पुनरनिग्रहोवशीकृतेन्द्रियः । पुनरसंविभागी, संविभजति आनीताहारमन्येभ्यः साधुभ्यः प्रार्थयतीत्येवंशीलः संविभागी, न संविभागी असंविभागी आहारेण स्वयमेवोदरं बिभर्त्तीत्यर्थः, अन्यस्मै न ददाति । ‘अवियत्ते इति' अप्रीतिकरः, दर्शनेन वचनेनाप्रीतिमुत्पादयति, एतैर्लक्षणैरविनीत उच्यते । अथ चतुर्दशस्थानानां नामानि - क्रोधः १, क्रोधस्थिरीकरणम् २, मित्रत्वस्य वमनं - त्यजनम् ३, विद्यामदः ४, परच्छिद्रान्वेषणम् ५, मित्राय क्रोधस्योत्पादनम् ६, प्रियमित्रस्यैकान्ते दुष्टभाषणम्, मुखे मिष्टभाषणम् ७, अविचार्य भाषणम् ८, द्रोहकारित्वम् ९, अहङ्कारित्वं १०, लोभित्वम् ११, अजितेन्द्रियत्वम् १२, असंविभागित्वम् १३, अप्रीतिकरत्वम् १४, चतुर्दश स्थानानि चतुर्दश हेतूनि - कारणानि अविनीतत्वोत्पादकानि ज्ञेयानि ॥ ९ ॥ - अह पन्नरसहिं ठाणेहिं, सुविणीएत्ति वुच्चई । नीयावत्ती अचवले, अमाई अकुऊहले ॥ १० ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy