SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ नवमं नमिप्रव्रज्याख्यमध्ययनम् ९] [१५७ प्रत्येवमवदत् - हे पुत्रि ! भ्रातृशोकं मुञ्च, चित्तं स्वस्थं कुरु, ईदृश एव संसारोऽस्ति, त्वं मम पूर्वभवे पुत्र्यभूः, तिष्ठ त्वमत्रैव गिरौ, अत्र स्थितायास्तव सर्वं भव्यं भविष्यति । एवं देववचनमाकर्ण्य कनकमाला चिन्तयामास कोऽसौ देवः ? कथमस्याहं पुत्री ? असौ मयि स्निह्यति, अहमप्यस्मिन् स्निह्यामि, यावदेवं कनकमाला चिन्तयति तावत्तज्जनको विद्याधरेन्दो दृढशक्तिनामा धावन् तत्रायातः, स्वपुत्रं स्वर्णतेजसं, विरोधिनं वासवविद्याधरं च मृतं दृष्ट्वा, छिन्नमस्तकां च तां पुत्रीं दृष्ट्वैवं विचारयामास अयं सुत इयं सुतायं शत्रुस्त्रयोऽप्यमीदृगवस्थां प्राप्ताः, स्वप्नोपमं जगत्सर्वं दृश्यते । एवं ध्यायतस्तस्य दृढशक्तिविद्याधरस्य जातिस्मरणमुत्पन्नम्, असौ शासनदेवीप्रदत्तवेषश्चारणश्रमणो यतिरभूत् । अथ स व्यन्तरस्तया पुत्र्या सह तं श्रमणं ननाम । जीवन्तीं तां पुत्रीं वीक्ष्य स चारणश्रमणस्तं व्यन्तरं नमन्तमपृच्छत् किमिदमिन्द्रजालं मया दृष्टं ? व्यन्तरः प्राह-तव पुत्र-शत्रू मिथो वियुध्य मृतौ, इयं च कन्या जीवन्त्यपि मृता तव दर्शिता । मुनिः प्राह-कथं त्वया माया कृता ? स व्यन्तरः स्मृत्वैवमाह-हे मुनिनायक ! एतत् श्रृणु । क्षितिप्रतिष्ठनृपतेर्जितशत्रोरियं प्राग्भवे पल्यभवत् । चित्राङ्गदनाम्नश्चित्रकृतो ममैषा पुत्र्यभवत्, एतया प्राग्भवेऽन्त्यसमये मम नमस्कारा दत्ताः । तत्प्रभावादहं व्यन्तरो जातः, एषापि मृता देवी जाता, देवीत्वमनुभूय तव सुतात्र भवे जाता, तेन विद्याधरेणापहृत्यात्र चैत्ये मुक्ता, वासवाख्यखेचरेणावासं कृत्वा विवाहसामग्री मेलयित्वा विवाहः कर्तुमारब्धः । ततश्च कनकतेजनामा वृद्धभ्राता समायातः । ततो द्वौ क्रुद्धौ दुर्धर्षयुद्धेऽन्योन्यशस्त्रघातेन मरणमापतुः, असावपि भ्रातृशुचार्दिता स्थिता। अन्येधुर्यात्रार्थमायातेन मया सा दृष्टा, एतस्या बन्धौ चौरेच मृते यावदिमामहमाश्वासयामि तावदवन्तोऽत्र प्राप्ताःमया विमप्रमियमनेन जनकेन समं मा यात्विति मयैतस्या गोपनमाया विहिता,यत्तव निराशत्वं मया तदानीं कतं तत्क्षन्तव्यम्।मनिरूचेऽहो-व्यन्तर! या त्वया तदा माया कता सा मम भवहारिणी जाता, तेन मम भवतोपकतम् न किमप्यपराद्धम् । एवमुक्त्वा स मुनिर्धर्माशिषं दत्वान्यत्र विजहार । अथ प्राग्भववृत्तान्तं श्रुत्वा सा कन्या जातिस्मृतिभागभूत् । तदा प्राग्जन्मजनकं तं व्यन्तरमाह-हे तात ! तं पूर्वभवपतिं मे मेलय । व्यन्तरः प्राह-स ते प्राग्भवभर्ता जितशत्रुनृपतिर्देवीभूय च्युतः साम्प्रतं सिंहस्थो नाम राजा जातोऽस्ति, स गन्धारदेशे पुण्ड्रवर्धननगरादश्वापहृतोऽत्र समायास्यति, स हि त्वामत्रैव सकलसामय्या परिणेष्यति, यावत्स इहाभ्येति तावत्त्वमत्रैव तिष्ठेत्युक्त्वा स व्यन्तरः सुराचले शाश्वतजिनबिम्बानि नन्तुं गतवान् । इमं सर्ववृत्तान्तं कथयित्वा सा कन्या राजानं प्रत्याह हे स्वामिंस्त्वमत्र मद्भाग्याकर्षितः समायातः । सिंहस्थराजापीमां पूर्वभवकथां श्रुत्वा पूर्वभवस्वरूपं तं च व्यन्तरमस्मरत् । तेन स्मृतः स व्यन्तरः पुनस्तत्रागात्, दिव्यवादित्रनिर्घोषं कृतवान्, मध्याह्ने जिनबिम्बान्यभ्यर्च्य नृपो भुक्तः । ततस्तेन व्यन्तरेण पूरिताशेषवाञ्छितोऽसौ नृपतिस्तत्र मासमेकं स्थितवान् ।चिरकालेन स्वराज्यानिष्टशङ्की राजा तां दयितां प्रतीदमाह-प्रिये ! प्रबलो वैरिव्रजो मे राज्यमुपद्रोष्यति ततोऽहं स्वपुरं यामि । गतवान्।
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy