________________
१५६]
[ उत्तराध्ययनसूत्रे दत्वा सुवर्णपुरुषं दापयामि । एवं वारंवारमाग्रहेण पित्रोरनुमतिं गृहित्वा राजसमीपे गतः, राज्ञा तु तत्पितुः पादौ शिरसि दापयित्वा स्वयमाकर्षितखड्गेन पृष्टो भूत्वा राक्षसस्य समीपं स नीतः।
यावता राक्षसो दृष्टस्तावता नृपेणोक्त:-भो ब्राह्मणपुत्र ! इष्टं स्मर एवं नृपेणोक्तः स ब्राह्मणपुत्र इतस्ततो नेत्रे निक्षिपन् जहास, तदा राक्षसस्तुष्टः प्राह यदिष्टं तन्मार्गय । स प्राह यदि त्वं तुष्टस्तदा हिंसां त्यज । जिनोदितं दयाधर्मं कुरु । राक्षसेनापि तद्वचसा दयाधर्मः 'प्रपन्नः, राजादयोऽपि तं दारकं प्रशंसितवन्तः ।अथ दासी प्राह-हे राज्ञि! तस्य ब्राह्मणपुत्रस्य को हास्यहेतुः ? तयोक्तं साम्प्रतं मे निद्रा समायातीत्युक्त्वा सा सुप्ता । द्वितीयदिने दासीपृष्टा सा राज्ञी प्राह-हे हलेऽयं तस्य हास्यहेतुः-नृणां हि माता पिता नृपः शरणम्, ते त्रयोऽपि मत्पार्श्वस्थाः, अहं पुनः कस्य शरणं यामीति तस्य हास्यमुत्पन्नमिति परमार्थः । इति नवमी कथा।
एवं सा चित्रकरसुता कथाभिर्मुहुर्मुहुर्मोहयन्ती राजानं वशीचकार । राजा तु तस्यामेवासक्तोऽन्यासां राज्ञीनां नामापि न जग्राह । ततस्तस्याश्च्छिदाणि पश्यन्त्यः सर्वा अपि सपल्यः परमं द्वेषं वहन्ति, चित्रकरसुता तु निरन्तरं मध्याह्ने रहस्येकाकिनी कपाटयुगलं दत्त्वा गृहान्तः प्रविश्य पूर्ववस्त्राणि प्रावृत्यात्मानमेवं निनिन्द । हे आत्मंस्तवायं पूर्ववेषः, साम्प्रतं राजप्रसादादुत्तमामवस्थां प्राप्य गर्वं मा कुर्याः । एवमात्मनः शिक्षा ददतीं तां दृष्ट्वा सपन्यो राजानमेवं विज्ञपयामासुः-हे स्वामिन्नेषा क्षुद्रा तवानिशं कार्मणं कुरुते, यद्यस्माकं वचनं न मन्यसे तदा मध्याह्ने स्वयं तद्गृहे गत्वा तस्याः स्वरूपं विलोकयेति । अथ भूपतिस्तासां वाक्यं निशम्य मध्याह्न तस्या गृहे गतः, सा तु तथैव पूर्वनेपथ्यं परिधायात्मनः शिक्षा ददती भूपतिना दृष्टा, सर्वाण्यपि तद्वचांसि श्रुतानि, तस्या निर्गर्वतां ज्ञात्वा परमं प्रमोदमवाप । स इमां पट्टराज्ञी चकार, इयं च विशेषान्मनोविनोदं चकार । अन्यदा तन्नगरोद्याने विमलाचार्यः समायातः । राज्या सह नृपस्तद्वन्दनाय तत्र गतः, नगरलोकोऽपि तद्वन्दनार्थं गतः, तदा विमलाचार्यों देशनां चकार । चित्रकरसुता नृपश्च द्वावपि प्रतिबुद्धौ । श्रावकधर्मं गृहीतवन्तौ, परस्परमनाबाधया त्रिवर्गसाधनं कुरुतः । अन्येद्युस्तया दत्तपञ्चपरमेष्ठिनमस्कारः स पिता मृतो व्यन्तरो जातः । कालान्तरेणार्हन्तं धर्ममाराध्य चित्रकरसुता राज्ञी मृता देवीत्वं प्राप। ___ततश्च्युत्वा वैताढ्ये पर्वते तोरणाभिधे पुरे दृढशक्तिखेचरस्य पुत्री कनकमाला बभूव । प्राप्तयौवनां तामेकदा वीक्ष्य कन्दर्पतप्तो वासवनामा कश्चित् खेचरोऽपहृत्य तामत्र महादौ मुक्त्वा स्वचित्ते प्रमोदं बभार । अत्र विद्याबलात्समग्रां सामग्री विधाय स वासवविद्याधरो यावद्गन्धर्वोद्वाहाय समुत्सुकोऽभवत्तावत्कनकमालाग्रजः स्वर्णतेजस्तदनुपदिकस्तत्रायातो वासवं विद्याधरमधिक्षिप्तवान् । तौ द्वावपि कोपाद् घोरं युद्धं कुर्वाणौ परस्परप्रहारा? मृतौ । कनकमाला तु भृशं भ्रातृशोकं चकार । तदानीं कश्चिद्देवस्तत्रागत्य कनकमाला १ प्रतिपन्नः-मु. ॥२ कमन्यं-D.L.॥ ३ निर्भत्सना करी ॥