________________
[१५५
नवमं नमिप्रव्रज्याख्यमध्ययनम् ९] तदा सा स्त्री तां सपत्नी दुष्टदेवपादस्पर्शशपथायाकर्षितवती, तदानीं भयभ्रान्ता सपत्नी तं हारं तनयागृहादानीय तस्यै ददौ । दासी प्राह हे स्वामिनि ! तया कथं ज्ञातो हारापहारः ? राज्ञी प्राह कल्यरात्रौ कथयिष्यामीत्युक्त्वा सा सुप्ता । द्वितीयदिनरात्रौ पुनस्तया पृष्टा राज्ञी प्राह-सा पेटा स्वच्छकाचमय्यस्तीति परमार्थः । इति सप्तमी कथा।।
पुनरपि दासीपृष्टा तयोक्तं-कस्यचिद्राज्ञः कन्या केनापि खेटेनापहृता, तस्य राज्ञश्चत्वारः पुरुषाः सन्ति । एको निमित्तवेदी, द्वितीयो रथकृत्, तृतीयः सहस्त्रयोधा, चतुर्थो वैद्यः । तत्र निमित्तवेदी दिशं विवेद, रथकृद्दिव्यं रथं चकार, खगामिनं तं रथमारुह्य सहस्रयोधी वैद्यश्च विद्याधरपुरे गतौ, सहस्रयोधी तु तं खेटं हतवान्, हन्यमानेन खेटेन कन्याशिरश्छिन्नम् तदैव तेन वैद्येन शिर औषधेन संयोजितम् । राजा तु पश्चादागतेभ्य एभ्यश्चतुय॑स्तां सुतां ददौ । कन्या प्राहैषु मध्ये यः मया सह चिताप्रवेशं करिष्यति तमहं वरिष्यामीति प्रोच्य सा कन्या सुरङ्गद्वारिरचितायां चितायां प्रविष्टा, यस्तया सह तत्र प्रविष्टः स तां कन्यामूढवान् । दासी प्राह-हे स्वामिनि ! चतुर्षु मध्ये कोऽत्र प्रविष्टः ? राज्ञी प्राहाद्य रतिश्रमातया मे निद्रा समायातीत्युक्त्वा सुप्ता । द्वितीयवासररात्रौ पुनर्दासीपृष्टा राज्ञी प्राह-निमित्तवेदी इयं न मरिष्यतीति मत्वा चितां प्रविष्टस्तामूढवानिति परमार्थः । इत्यष्टमी कथा ।
पुनरपि रात्रौ पृष्टा राज्ञी कथां प्राह-जयपुरे नगरे सुन्दरनामा राजास्ति, सोऽन्यदा विपरीताश्वेनैकस्यामटव्यां नीतः, ततो वल्गां शिथिलीकृत्याश्वात्स 'राजोत्तीर्णस्तमश्वं क्वचित्तरौ बद्ध्वा स्वयमितस्ततो भ्रमन् कस्मिंश्चित्सरसि जलं पपौ, तत्रैकां सुरूपां तापसपुत्रीं ददर्श, तापसपुत्र्याहूतः स तापसाश्रमं प्राप, तत्र तापसास्तस्य भृशं सत्कारं चक्रुः । सा कन्या तापसैस्तस्मै दत्ता, राज्ञा च परिणीता, तां नवोढां कन्यां गृहीत्वा तमेवाश्वमधिरुह्य पश्चाद्वलितः । अन्तरालमार्गे क्वचित्सरःपाल्यां राजा सुप्तो जाग्रन्नेवास्ति,राज्ञी तु सुप्ता निदाणा च ।अथ केनापि राक्षसेन तत्रागत्य नृपस्यैवं कथितं षण्मासान् यावद् बुभुक्षितोऽहमद्य त्वां भक्ष्यं प्राप्य तृप्तो भविष्यामि, अन्यथा मद्वाञ्छितं देहि, राज्ञोक्तं ब्रूहि स्ववाञ्छितं ? तेनोक्तं कश्चिदष्टादशवर्षीयो ब्राह्मणः पुत्रः शिरसि पितृदत्तपदस्त्वया खड्गेन हतः सप्तदिनमध्ये चेद् बलिर्दीयते तदाहं त्वां मुञ्चामि, नान्यथेति । राज्ञा तत्प्रतिपन्नम्।
प्रभाते राजा ततश्चलितः कुशलेन स्वपुरे गतः, सैनिकाः सर्वेऽपि मिलिताः, राज्ञा स्वमन्त्रिणे राक्षसवृत्तान्तः कथितः, मन्त्रिणा सुवर्णपुरुषो निर्माय पटहवादनपूर्वं नगरे भ्रामितः, एवं चोद्घोषितं यो ब्राह्मणपुत्रो राक्षसस्य जीवितदानेन नृपजीवितदानं दत्ते तस्य पित्रोरयं सुवर्णपुरुषो दीयते । इयमुद्घोषणा षड्दिनानि यावत्तत्र जाता, सप्तमदिने एकः प्राज्ञो ब्राह्मणपुत्रस्तां निर्घोषणां श्रुत्वैवं मातापितरावबोधयत् । प्राणा गत्वराः सन्ति, मातापित्रोश्चेदक्षा प्राणैः क्रियते तदा वरम् । तेनाहं नृपजीवितरक्षार्थं स्वजीवितं राक्षसाय
१ राजोत्तीर्य-D.L.॥