SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १५४] [ उत्तराध्ययनसूत्रे अथ पुनस्तथैव नृपे सुप्ते दासीपृष्टा राज्ञी कथामाह- क्वचिन्निवेशे कश्चिदुष्ट्रश्चरन् कदापि बम्बूलतरुं ददर्श, तदभिमुखां ग्रीवां कुर्वन्नप्राप्ततच्छाखः प्रकामं खिन्नस्तस्यैव बम्बूलतरोरुपर्युत्सर्गं कृतवान् । तदा दासी राज्ञीं पप्रच्छ । हे स्वामिनि ! कथमेतद् घटते ? स्वग्रीवया यो बम्बूलतरुं न प्राप्तस्तदुपरि कथमसावुत्सर्गं चकार ? राज्ञी प्राहाद्य निद्रा समायाति, नैवेतत्कथारहस्यं कथयिष्यामीत्युक्त्वा सुप्ता, कल्यदिनरात्रावपि तथैव नृपे सुप्ते दासीपृष्टा राज्ञी तत्कथारहस्यं प्राह स ऊष्ट्रः कूपमध्यस्थं बम्बूलतरुं ददर्शेति परमार्थः । इति तृतीया कथा । पुनस्तथैव नृपे सुप्ते दासीपृष्टा राज्ञी कथामाचख्यौ - कस्मिंश्चिन्नगरे काचित्कन्या भृशं रूपसौभाग्यवती अस्ति, तदर्थं तन्मातृपितृभ्यां त्रयो वरा आहूताः समायाताः, तदानीं फणिना दष्टा सा कन्या मृता । तया समं मोहादेको वरस्तच्चितां प्रविष्टो भस्मसात्बभूव । द्वितीयस्तद्भस्मपिण्डदाता तद्भस्मोपरि वासं चकार । तृतीयस्तु सुरमाराध्यामृतं प्राप । तदमृतेन च तच्चिता सिक्ता, कन्यां प्रथमं वरं च सद्योऽजीवयत्, कन्याप्युत्थिता तांस्त्रीन् वरान् ददर्श । राज्ञी दासीं प्राह- हे सखि ! ब्रूहि, तस्याः कन्याया: को वरो युक्तः ? दासी प्राहाहं न वेद्मि, त्वमेव ब्रूहि । राज्ञी प्राहाद्य निद्रा समायातीत्युक्त्वा सुप्ता । द्वितीयदिनरात्रौ दासीपृष्टा सावदत्, यस्तस्याः सञ्जीवकः स पिता, यः सहोद्भूतः स बन्धुः, यो भस्मपिण्डदाता स तत्पतिरिति चतुर्थी कथा । तथैव रात्रौ नृपे सुप्ते दासीपृष्टा राज्ञी प्राह- कश्चिन्नृपः स्वपल्यै दिव्यमलङ्कारं सुगुप्तभूमिगृहे रत्नालोकात्सुवर्णकारैरजीघटत् । तत्रैकः स्वर्णकारः सन्ध्यां पतितां ज्ञातवान् । राज्ञी प्राह-हे सखि ! तेन कथं रत्नालोकसहिते सुगुप्तभूमिगृहे यामिनीमुखं ज्ञातम् ? दासी प्राह- नाहं वेद्मि, त्वमेव ब्रूहि ? राज्ञी प्राहाद्य साम्प्रतं निद्रा समायातीत्युक्त्वा सुप्ता । द्वितीयदिनरात्रौ दासीपृष्टा राज्ञी प्राह-स सुवर्णकारो रात्र्यन्धोऽस्तीति परमार्थः । इति पञ्चमी कथा । पुनरेकदा रात्रौ नृपे सुप्ते दासीपृष्टा राज्ञी प्राह- केनापि राज्ञा द्वौ मलिम्लुचौ निश्छिदपेटायां क्षिप्त्वा समुद्रमध्ये प्रवाहितौ, क्वापि तटे सा पेटी लग्ना, केनचिन्नरेण गृहीता, उद्घाट्य तौ दृष्ट्वा पृष्टौ - भो युवयोरत्र क्षिप्तयोरद्य कतमो दिवसोऽयं ? तयोर्मध्ये एकः प्राहाद्य चतुर्थो दिवसः, राज्ञी प्राह - हे सखि ! तेन चतुर्थी दिवसो कथं ज्ञातः ? दासी प्राहाहं न वेद्मि त्वमेव ब्रूहि । राज्ञी त्वद्यसाम्प्रतं निद्रा समायातीत्युक्त्वा सुप्ता । द्वितीयदिनरात्रौ दासीपृष्टा राज्ञी प्राह- स चतुर्थदिनवक्ता पुरुषस्तुर्यज्वरी वर्तते इति परमार्थः । इति षष्ठी कथा । पुनरन्यदा दासीपृष्टा रात्रौ सा राज्ञी कथामाचख्यौ । काचित्स्त्री सपत्नीहरणभयेन निजाङ्गभूषणानि पेटायां निक्षिप्य मुद्रां च दत्वाऽलोकभूमौ मुमोच । अन्यदा सा स्त्री सखिनिवासे गता, सपत्नी च विजनं विलोक्य तां पेटामुद्घाट्यानेकाभरणश्रेणिमध्यादेकं हारं निष्कास्य तनयायै ददौ, तनया च स्वपतिगृहे तं सुगुप्तं चकार । कियत्कालानन्तरं सा स्त्री तत्रायाता, तां पेटां दूरादवलोक्यैवं ज्ञातवती यदस्याः पेटाया मध्यान्मम हारो ऽनयापहृत इति सा स्त्री तां सपत्नीं चौर्येण दूषयामास सपत्नी शपथान् करोति, हारापहारं न मन्यते,
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy