________________
नवमं नमिप्रव्रज्याख्यमध्ययनम् ९]
[१५३ के त्रयः पादा लब्धाः ? साम्प्रतमहं कथं त्वया चतुर्थः पादो लब्धः ? सा प्राह-श्रूयतां, योऽद्य मया राजमार्गे त्वरितमश्वं वाहयन् बाल-स्त्रीप्रमुखजनानां त्रासयन् दृष्टः स मूर्खत्वे प्रथमः पादो 'लब्धः, द्वितीयः पाद इहत्यो राजा, यः कुटुम्बलोकसहितैश्चित्रकरैः समं भित्तिभागं जरातुरस्य मम पितुर्ददौ । तृतीयः पादो मम पिता, यो नित्यं भक्ते समायाते बहिर्याति । चतुर्थस्त्वं योऽस्मिन् भित्तिदेशे मल्लिखिते मयूरपिच्छे करं चिक्षेप । परमेवं त्वया न विमृष्टं यदत्र सुधाघृष्टे भित्तिदेशे निराधारा मयूरपिच्छस्थितिः कुतो भवति ? एवं तस्या वचश्चातुरीरञ्जितो राजा तत्पाणिग्रहणं वाञ्छकः सन् तस्याः पितुः समीपे स्वमन्त्रिणं प्रेषयित्वा तां प्रार्थितवान् । पित्रापि सा दत्ता, सुमुहूर्ते परिणीता राज्ञः प्रकामं प्रेमपात्रं बभूव । सर्वान्तःपुरीषु मुख्या जाता, विविधानि दूष्यानि रत्नाभरणानि चाससाद । एकदा तया मदनाभिधा स्वदासी रहस्येवं बभाषे-भरे ! यदा मदतिश्रान्तो भूपतिः स्वपिति तदा त्वयाहमेवं पृष्टव्या-'स्वामिनि ! कथां कथयेति' । तयोक्तमवश्यमहं तदानीं प्रश्नयिष्ये । अथ रात्रिसमये राजा तद्गृहे समायातः, तां भुक्त्वा रतिश्रान्तो राजा यावत्स्वपिति तावता दास्येयं पृष्टा-स्वामिनि ! कथां कथय । राज्ञी प्राह-यावदाजा निद्रां नाप्नोति तावन्मौनं कुरु पश्चात्त्वदने यथेच्छं कथां कथयिष्यामि, राजापि तां कथां श्रोतुकामः कपटनिद्रया सुष्वाप, पुनर्दास्या साम्प्रतं कथां कथयेति पृष्टा चित्रकरपुत्री कथां कथयितुमारेभे ।
मधुपुरे वरुणः श्रेष्ठी एककरप्रमाणदेवकुलमकारयत्, चतुष्करप्रमाणो देवस्तत्र स्थापितः, स देवस्तस्मै चिन्तितार्थदायको बभूव । अथ दासी प्राह-एकहस्ते देवकुले चतुष्करप्रमाणो देवः कथं मातः ? इति तया पृष्टे सा राज्ञी प्राह-इमं रहस्यं तव कल्यरात्रौ कथयिष्यामि, अद्य तु निद्रा समायातीति प्रोच्य सा राज्ञी राजशय्यापुरो भूमौ सुप्ता, सा दास्यपिस्वगृहेगता,राजा मनस्येवं चिन्तयामास कल्यरात्रावपीदं कथानकं मया श्रोतव्यमिति निश्चित्य राजा सुप्तः सुखं निद्रामवाप । द्वितीयदिनेऽपि राजा तस्या एव गृहे रात्रौ समायातः, रात्र्यधु यावदतिसुखं भुङ्क्ते, पश्चादतिश्रान्तो राजा पूर्वकथानकश्रवणाय कपटनिद्रया सुप्तः। दासी प्राह-स्वामिनि ! कथानकरहस्यं वद । राज्ञी प्राहैकहस्ते देवकुले चत्वारः करा यस्य स चतुष्करी देवो नारायणादिकस्तत्र स्थापित इत्यर्थः । एका कथा समाप्ता।
अथ तृतीयदिनरात्रावपि राजा तथैव कपटनिद्रया सुप्तः, दासी पुनः कथामद्य कथयेति तामाह सा प्राह-विन्ध्याचले पर्वते कोऽपि रक्ताशोकदुमः प्रौढोऽस्ति, तस्य घनानि पत्राणि सन्ति, परं छाया नाभवत् । दासी प्राह-पत्रावृत्तस्य तस्य छाया कथं न जाता ? राज्ञी प्राहैतदहस्यं तव कल्यरात्रौ कथयिष्यामि । अद्याहं रतिश्रान्ता निदासुखमनुभविष्यामीत्युक्त्वा सुप्ता, दासी तु स्वगृहे गता । अपररात्रौ राजा भोगान् भुङ्क्त्वा तथैव रात्रौ सुप्तः, दासी प्राह-स्वामिनि ! कल्यसत्ककथारहस्यं कथनीयम् । राज्ञी प्राह-तस्य वृक्षस्य सूर्यातपतप्तस्य मूर्ध्नि छाया नास्ति, अध एव छायास्तीत्यर्थः । इति द्वितीया कथा ॥ १ दृष्ट:-D.L.॥ ૨૦