SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५२] [उत्तराध्ययनसूत्रे अथ यदा नमिः प्रतिबुद्धस्तदानीमेव नगातिर्नृपः प्रतिबुद्धः । अथ नगातिनृपचरित्रं कथ्यते-अस्मिन् भरते पुण्ड्रवर्धनं नाम नगरमस्ति, तत्र सिंहरथो नाम राजा वर्तते । गन्धारदेशाधिपतेस्तस्य राज्ञोऽन्यदा द्वावश्वौ प्राभृतौ समायातौ । तयोः परीक्षार्थमेकस्मिस्तुरगे राजाधिरूढः, एकस्मिश्च तुरगेऽपरो नर आरूढः, तेन सममपरैश्चाश्ववारशतैः परिवृतो भूपतिर्बाह्यारामिकायां गतः, परीक्षां कुर्वता राज्ञाश्वः प्रधानगत्या विमुक्तः, सोऽपि बलवता वेगेन निर्ययौ । यथा यथा राजा वल्गामाकर्षति तथा तथा स वायुवेगवान् जातः, पुरोपवनान्यतिक्रम्य सोऽश्वो राजानं लात्वा महाटव्यां प्रविष्टः, श्रान्तेन भूपेन तदास्य वल्गा मुक्ता, तदा राजैनं विपरीताश्वं मन्यते स्म, तस्मादुत्तीर्य राजा भूमिचरो बभूव । तं च पानीयं पाययित्वा वृक्षे बबन्ध, स्वप्राणवृत्तिं फलैर्विदधे।। तत एकं नगमारुह्य क्वचित्प्रदेशे सुन्दरमेकं महावासं ददर्श । राजा कुतूहलात्तस्मिन्नावासे प्रविष्टः । तत्रैकाकिनी पवित्रगात्रां कन्यां भूपतिदृष्टवान्, सा राजानमागच्छन्तं दृष्ट्वा भूरिहर्षा आसनं ददौ । राज्ञोचे का त्वं ? कोऽयमदिनिवासः ? किमिदं रम्यं धाम ? कन्या प्राह-भूपाल ! प्रथमं मत्पाणिग्रहणं कुरु । साम्प्रतं विशिष्टं लग्नमस्ति, पश्चात्सर्वं वृत्तान्तमहं कथयिष्यामि । तयेत्युक्ते नरपतिस्तत्र तया समं पूजितं जिनबिम्बं प्रणम्योद्वाहमाङ्गल्यमलञ्चकार । भूपतिना परिणीता सा कन्या विविधान् भोगोपचारांश्चकार। विचित्राश्च स्वभक्तीर्दर्शयामास ।अवसरे राजा तां प्रत्येवमाह-विमलैः पुण्यैरावयोः सम्बन्धो जातोऽस्ति, परं त्वं स्ववृत्तान्तं वद, का त्वं कथमत्रैकाकिनी वससि ? स्वभा एवमुक्ते सा स्वसम्बन्धं मूलतो वक्तुमारेभे। क्षितिप्रतिष्ठे नगरे जितशत्रुर्नूपोऽस्ति । सोऽन्यदा परदेशायातचरानेवमाह- अहो ! मम राज्ये किञ्चिन्न्यूनमस्ति ? ते प्राहुः-सर्वमपि तव राज्येऽस्ति, परं विचित्रचित्रा सभा नास्ति । ततो नृपतिश्चित्रकरानाकार्य सभागृहभित्तिभागाः सर्वेषां समाश्चित्रयितुं दत्ताः, सर्वेऽपि चित्रकराः स्वस्वभित्तिभागान् गाढोद्यमेन चित्रयन्ति, तत्रैको वृद्धश्चित्रकरः सकलचित्रकलावेदी स्वभित्तिभागं चित्रयितुमारब्धवान्, सहायशून्यतस्तस्य निरन्तरंगृहतः कनकमञ्जरी रूपवती पुत्री भक्तं तत्रानयति । अन्यदा सा स्वगृहाद्भक्तमानयन्ती राजमार्गे गच्छन्त्यश्ववारमेकं ददर्श । स च बाल-स्त्री-वराकादिजनसंकीर्णेऽपि राजमार्गे त्वरितमश्वमवाहयत् । लोकास्तु तद्भयादितस्ततो नष्टाः, सापि क्वचिन्नंष्ट्वा स्थिता, पश्चात्तत्रायाता, भक्तपानहस्तां तामागतां वीक्ष्य स वृद्धचित्रकारः पुरीषोत्सर्गार्थं बहिर्जगाम । एकत्राहारपात्रामाच्छादयित्वा सा क्वचिद्भित्तिदेशे वर्णकैर्मयूरपिच्छमालिलेख। ___ अथ तत्र राजा सम्प्राप्तः भित्तिचित्राणि पश्यन् कुमार्यालेखिते केकिपिच्छे साक्षात्पिच्छं मन्यमानः करं चिक्षेप । भित्यास्फालनतो नखभङ्गेन विलक्षीभूतं तं नृपं सामान्यपुरुषमेव जानन्ती सा चित्रकरपुत्र्येवमाह-'चतुर्थः पादस्त्वमद्य मया लब्धः' । नृपः प्राह-पूर्वं त्वया
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy