SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ नवमं नमिप्रव्रज्याख्यमध्ययनम् ९] [ १५१ प्रधानोऽसि, उत्तमगुणान्वितत्वात् । 'पिच्या' इति प्रेत्य - परलोकेऽप्युत्तमो भविष्यसि लोकस्योत्तमोत्तममतिशयप्रधानं स्थानमेतादृशं सिद्धि मुक्तिस्थानं नीरजा निष्कर्मा गच्छसि - त्वं गमिष्यसि । अत्र 'लोगुत्तमुत्तममि' त्यत्र मकारः प्राकृतत्वात्, लोकोत्तमोत्तम इति वक्तव्यम् ॥ ५८ ॥ एवमभित्थुणतो, रायरिसिं उत्तमाए सद्धाए । पायाहिणं करतो, पुणो पुणो वंदए सक्को ॥ ५९ ॥ शक्र-इन्द्रो नमिराजर्षि पुनः पुनर्वन्दते - भूयो भूयो नमस्कुरुते । किं कुर्वन् ? प्रदक्षिणां कुर्वन्, पुनः किं कुर्वन् ? उत्तमया-प्रधानया श्रद्धया रुच्या, भक्त्याऽभिष्टुवन् स्तुतिं कुर्वन्नित्यर्थः ॥ ५९ ॥ तो वंदिऊण पाए, चक्कंकुसलक्खणे मुनिवरस्स । आगासेणुप्पइओ, ललियचवलकुंडलकिरीडी ॥ ६० ॥ 'तो' इति ततः शक्र आकाशमनुत्पतित उड्डितः, किं कृत्वा ? मुनिवरस्य राजर्षेः पादौ वन्दित्वा कीदृशौ मुनेः पादौ ? चक्राङ्कुशलक्षणौ, राज्ञो हि पादयोश्चक्राङ्कुशलक्षणं स्यात् । कीदृशः शक्रः ? ललितचपलकुण्डलकिरीटी, ललिते सविलासे चपलेचञ्चले च ते कुण्डले च यस्य स ललितचपलकुण्डलः, किरीटं मुकुटं यस्यास्तीति किरीटी, ललितचपलकुण्डलश्चासौ किरीटी च ललितचपलकुण्डलकिरीटी, चपलसुन्दरकुण्डलमुकुटधारक इत्यर्थः ॥ ६० ॥ नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ । चइऊण गेहं वेदेही, सामने पज्जुवट्ठिओ ॥ ६१ ॥ - नमिराजर्षिरात्मानं नमयति-आत्मानं विनयधर्मे भावयति, कथम्भूतो नमि: ? शक्रेण साक्षात्प्रकारेण प्रत्यक्षीभूय चोदितः, गृहीतमनोभावः परीक्षिताशयः स नमिर्विदेहेषु विदेहदेशेषु भवो - वैदेहो - विदेहदेशाधिपो गृहं त्यक्त्वा श्रामण्ये श्रमणस्य - साधोः कर्म श्रामण्यं साधुधर्मस्तत्र पर्युपस्थित उद्यतोऽभूत्, परि उपसर्गेणायमर्थो द्योतते स्वयमेवोद्यतः, न त्विन्द्रप्रेरणातो धर्मे विप्लुतोऽभूदिति भावः ॥ ६१ ॥ एवं करंति संबुद्धा, पंडिया पविअक्खणा । विणयति भोगेसु, जहा से नमी रायरिसि ॥ ६२ ॥ त्ति बेमि सम्बुद्धाः सम्यग्ज्ञाततत्त्वाः पण्डिताः सुनिश्चितशास्त्रार्था एवममुना प्रकारेण कुर्वन्ति, भोगेभ्यो विशेषेण निवर्तन्ते, कीदृशाः सम्बुद्धाः ? प्रविचक्षणाः, प्रकर्षेणाभ्यासातिशयेन विचक्षणः क्रियासहितज्ञानयुक्ताः इत्यर्थः । क इव भोगेभ्यो निवर्तन्ते ? यथा नमिराजर्षिर्भोगेभ्यो निवर्तित इत्यहं ब्रवीमि सुधर्मा स्वामी जम्बूस्वामिनं प्रति वदति ॥ ६२ ॥ इति तृतीयप्रत्येकबुद्धनमिराजर्षिसम्बन्धः ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy