SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १५०] [ उत्तराध्ययनसूत्रे जीवः क्रोधेनाधो व्रजति, नरके याति, मानेनाधमा गतिर्भवति, गर्दभौष्ट्रमहिषशूकरादिगतिः स्यात् । मायया सुगतेः प्रतिघातः, माया सुगतरर्गला भवति । लोभाद् द्विधापि भयं स्यात्, ऐहिकं पारलौकिकं च भयं दुःखं स्यात् । कामप्रार्थने ह्यवश्यं भाविनः क्रोधादयस्ते च क्रोधादय इदृशाः । ततः कथं तत्प्रार्थनातो दुर्गतिर्न स्यात् ? ॥५४॥ एवं वचनयुक्तिं श्रुत्वेन्द्रो नमिराजर्षि प्रति क्षोभयितुमशक्तः किमकरोदित्याह अवउज्झिऊण माहण-रूवं विउव्विऊण इंदत्तं । वंदइ अभित्थुणंतो, इमाहिं महुराहिं वग्गूहि ॥५५॥ इन्द्रो नमिराजर्षि प्रति वन्दते । किं कुर्वन् ? इमाभिः प्रत्यक्षं वक्ष्यमाणाभिर्मधुराभिग्भिः स्तुवन् किं कृत्वा ? ब्राह्मणरूपमपोह्य-त्यक्त्वा, इन्द्रत्वं विकुळ-विधाय ॥५५॥ अहो ते निज्जिओ कोहो, अहो माणो पराजिओ। अहो ते निज्जिया माया, अहो लोहो वसीकओ ॥५६॥ अहो इत्याश्चर्ये, त्वया क्रोधो निर्जितः, यतो मया त्वां प्रत्युक्तमनम्रपार्थिवावशीकर्तव्यास्तदापि त्वं न क्रुद्ध इत्यर्थः । अहो इत्याश्चर्ये त्वया मानोऽपि दूरीकृतः, यतो मन्दिर दह्यते, अन्तःपुरंदह्यत इत्याधुक्तम्, तथापि मयि विद्यमाने मम पुरं ममान्तःपुरं च दह्यत इति तव मनस्यहंकृति यात्, तस्मानिसनस्त्वं वर्त्तसे ।अहो इत्याश्चर्ये, त्वया मायापि निर्जितानिराकृता, यतस्त्वं नगरस्य रक्षाकारणेषु प्राकाराट्टालकादिषु, निष्कासनयोग्येष्वामोषलोमाहारग्रन्थिभेदकतस्करादीनां वशीकरणहननादिषु चमनो नोऽकरोः ।अहो इत्याश्चर्ये, लोभो वशीकृतः, हिरण्यसुवर्णादिकं वर्धयित्वा पश्चाद्गन्तव्यमिति श्रुत्वापि मां प्रतीच्छा हु आकाशसमाऽनन्तका इत्युक्तवान् तस्माच्चत्वारोऽपि कषायास्त्वया जिता इत्यर्थः ॥५६॥ अहो ते अज्जवं साहु, अहो ते साहु मद्दवं । अहो ते उत्तमा खंति, अहो ते मुत्ति उत्तमा॥५७ ॥ अहो इति विस्मये, आश्चर्यकारि वा, साधु-समीचीनं ते तवार्जवम्, ऋजोः-सरलस्य भाव आर्जवं विनयवत्त्वं वर्तते । अहो आश्चर्यकारि तव साधु-सुन्दरं मार्दवम्, मृदो वो मार्दवं-कोमलत्वं सदयत्वं वर्तते । अहो साध्वी तव क्षान्ति:-क्षमा वर्तते, अहो साध्वी तव मुक्तिर्वर्तते - निर्लोभता वर्तते ॥५७ ॥ अथ पुनर्वर्धमानगुणद्वारेणाभिष्टौति- . इहसि उत्तमो भंते, पिच्चा होइसि उत्तमो । लोगुत्तमुत्तमं ठाणं, सिद्धि गच्छसि नीरओ ॥ ५८ ॥ हे मुने ! हे भगवन् ! हे पूज्य ! त्वमिह-अस्मिन् जन्मन्युत्तमोऽसि, सर्वपुरुषेभ्यः
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy